Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथचरित्र पुनः प्रोवाच भूपाल: परमार्थ निवेदय । मत्स्योदर महाश्चर्यकारि सर्वमिदं यतः ॥ १८ ॥ सोऽवदत्तर्हि विद्यन्ते यानेऽस्य वणिजो मम। सपादाष्टशती स्वर्णसङ्घाटानां महीपते ॥ २० ॥ पञ्चदश सहस्राणि रत्नानां च प्रभावताम् । इति विज्ञाय गोस्वामिन् यत्कर्त्तव्यं कुरुष्व तत् ॥ २१ ॥ अभिज्ञानमिदं चात्र यत: सर्वेऽपि सम्मुटाः । खनामाङ्काः कृताः सन्त्युपलक्षणकृते मया ॥ २२ ॥ भूपपृष्ट न तेनाथ तन्नामोदौरितं निजम्। राज्ञाऽप्यानायितास्तेऽथ सङ्घाटाः श्वपचौकसः ॥ २३ ॥ विधा कृतेषु तेष्वन्तर्दृष्ट्वा तां धनदाभिधाम् । सद्यश्चुकोप मातङ्गवणिभ्यामवनीपतिः ॥ २४ ॥ हन्य मानौ च तो मत्स्योदरेणेव विमोचिती। सोऽथ कल्याण नीरेण स्नात्वा शुचिरभूत्युन: ॥ २५ ॥ वणि पार्खात् निजं वस्त्वादाय मातङ्गतोऽपि च । तयोः कृत्वोचितं चाभूद्धनदो धनदोपम: ॥ २६ ॥ पृष्टोऽथ भूभुजा भूयः स जगादात्मनः कथाम् । सत्यां यथाऽत्र वास्तव्यो देवाहं श्रेष्ठिनन्दनः ॥ २७ ॥ गाथा मयैका दीनारसहस्रेणात्मसात्कृता। ततो निष्कासित: पित्रा ततो देशान्तरं गतः ॥ २८ ॥
(१) घ ङ ब पार्यो। (२) च ज मया गाथै का। ग मयैका गाथा। च मयैकगाथा ।

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104