Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथचरित्रे
Our
सार्थवाहः सुदत्ताख्योऽन्यदा तद्देशमाययौ । याने जलेन्धनं तस्य त्रुटितं पूर्वसञ्चितम् ॥ ८५ ॥ दृष्ट्वा तं द्वौपमेतेन प्रेषिता निजपूरुषाः । जलेन्धन कृते तत्र ददृशुर्धनटं च ते ॥ ८६ ॥ कस्त्वं भोरित्यपृच्छंश्चावोचहनचरोऽस्मि सः । तैरुक्तस्तहि पानीयस्थानं किमपि दर्शय ॥ ७ ॥ तेनासो दर्शितस्तेषां कूपस्तेऽपि तदन्तिके । दट्ट शस्तत्सुवर्णादि पुरा यत्तेन सञ्चितम् ॥ ८८ ॥ कस्येदमित्यपृच्छंश्च धनदं सोऽप्युवाच तान् । मामकोनमिदं वित्तं स्थानं नयति यस्त्वदः ॥ ८ ॥ यच्छामि तस्य तुयांशमित्युक्ते सार्थपोऽपि सः । तत्रागाइनदस्तस्य प्रणामाद्यौचितिं व्यधात् ॥३००॥(युग्म म्) सार्थवाहस्तमालिङ्ग्य पृष्ट्वा च कुशलादिकम् । तज्जातरूपरत्नानां नयनं प्रतिपन्नवान् ॥ १ ॥ प्रापय्य भृत्यकैस्तान्यक्षेप्पोत्प्रवहणे निजे। गणयित्वा धनदोऽपि तानि तेषां समापयत् ॥ २ ॥ दृष्ट्वा बहु धनं तच्च सार्थेशश्चलिताशयः । आदिदेश 'निजनरान् कूपेऽसौ क्षिप्यतामिति ॥ ३ ॥ तैस्ततो धनदोऽभाणि कर्ष भोः कूपकाज्जलम् । वयं सम्यग्न जानीमः त्वं च तत्कृतपूय॑सि ॥ ४ ॥
(१) ख ग घ च त नरांस्तान स्वान् ।

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104