Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 69
________________ द्वितीयः प्रस्तावः । ६ तत्कर्तुमुद्यतस्तैः स क्षिप्तः कूपे कपोज्झितैः । हन्यते बन्धुरप्यर्थलुब्धैरन्यस्य का कथा ॥ ५ ॥ पर्णाञ्चितायां तन्मध्ये मेखलायां पपात सः । नेषदप्यङ्गजा पीडा ततोऽभूत्तस्य भाग्यतः ॥ ६ ॥ गाथां तां चिन्तयन् सोऽथ कूपपार्खान्यलोकयत् । दृष्ट्वैकदेशे विवरं तत्राविक्षच्च कौतुकात् ॥ ७ ॥ चारुसोपानपत्याऽसौ गत्वा किञ्चिदधस्ततः । । ऋजुनैव पथा गच्छन् पश्यं चित्राय ने कशः ॥ ८ ॥ ददर्शक देवकुलं तस्य मध्ये प्रभावतीम् । ताारूढां चक्रपाणिं देवों चक्रखरौं तथा ॥ ८ ॥ (युग्मम्) नत्वा तां परया भक्त्या शौर्षे विरचिताञ्जलिः । एवं विज्ञापयामास धनदो वदतां वरः ॥ १० ॥ जय श्री वृषभस्वामिजिनशासनदेवते । दुष्टारिष्टहरे स्तोतुः सर्वसम्पत्करे जय ॥ ११ ॥ दिध्या कष्टादितनाद्य हे देवि त्वं मयेक्षिता। भवतां तावकोनी तञ्चरणी शरणं मम ॥ १२ ॥ तद्भक्तिमुदिता सोचे सर्व भव्यं भविष्यति । अग्रे गतस्य ते वत्स मत्तोऽप्यर्थय किञ्चन ॥ १३ ॥ सोऽवदत् मयका देवि किं न प्राप्तं महीतले । दृष्टे त्वद्दर्शने पुण्यरहितानां सुदुर्लभे ॥ १४ ॥ ततो महाप्रभावानि पञ्चरत्नानि देवता । करे तस्यार्पयामास तत्प्रभावं शशंस च ॥ १५ ॥

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104