Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
हितीय: प्रस्तावः।
दृष्ट्वा च कूपकं किञ्चित्कृच्छादाकृष्य तज्जलम् । पीत्वा च वारयामास टष्णामथ शरीरगाम् ॥ ८५ ॥ विधाय प्राणयात्रां च फलैः कदलिसंभवैः । पुरादपि ततो दूरं भीतभीतो ययावसो ॥ ८६ ॥ अत्रान्तरे च मार्तण्डो निस्तेजा अस्तमौयिवान् । प्राप्ता मयाऽप्यवस्थेति धनदं बोधयत्रिव ॥ ८७॥ अस्तं गते 'दिवानार्थ तमसा लोशितं जगत् । विशिष्टज्ञानविरहादज्ञानेनेव सर्पता ॥ ८८ ॥ गिरेः कस्यापि निकटे वह्निमुत्पाद्य दारुणा । तस्य तापेन निःशीतः स व्यतीयाय यामिनीम् ॥ ८८ ॥ प्रभातसमये वह्निप्रदेशोवौं ददर्श सः । जातां स्वर्णमयों सद्यो दध्यौ चैवं सविस्मयः ॥ २० ॥ नूनं सुवर्मदीपोऽयं यदियं ज्वलितानलात् । जातरूपमयो जाता सद्य एव वसुन्धरा ॥ ८१ ॥ पातयामि ततः स्वम मिति ध्यात्वाऽमुना कताः । 'इष्टिकानां सुसङ्घाटाः स्वीभूताश्च तेऽग्निना ॥ १२ ॥ भ्रमन्त्रन्येारद्राक्षीत् निकुञ्ज कुत्रचिहिरेः । रत्नजातमयं तच्चानिनाय स्वर्णसन्निधौ ॥ ८३ ॥ एवं सुवर्मरत्नानां राशिस्तेन कृतो बहुः । कदल्यादिफलैः प्राणयात्रां चक्रे च सोऽन्वहम् ॥ ८४ ॥
(१) घ ङ च ज दिवाधीशे ।
३) ख च ञ मृत्तिकामयसं। (२) ख च ज स्वर्ण राशिस्तेन कतो बहुः।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104