Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
५५
हितीयः प्रस्तावः ।
५५ साऽपि विधा कृता जज्ञे ऽशनिघोष चतुष्टयो। एवं च खण्डामानोऽमी मायया शतधाऽभवत् ॥ ४ ॥ यावच्छोविजयो राजा निर्विणस्तद्दधेऽभवत् । तावत्तत्र सिद्धविद्योऽमिततेजा स आययो ॥ ५ ॥ अपहाय ततो मायां नश्यन्तं तद्भयेन तम् । दृष्ट्वाऽऽदिदेशार्किनृपो विद्या विद्यामुखीमिति ॥ ६ ॥ दूरादप्येष पापीयानानेतन्यस्त्वया स्फुटम्। । साऽथ तत्पष्ठतो लग्ना ययो सीमनगे च स: ॥ ७ ॥ तत्र श्रीवृषभस्वामिजिनमन्दिरसन्निधौ। उत्पन्न केवलज्ञानं वन्द्यमानं सुरासुरैः ॥ ८ ॥ निरीक्ष्य बलदेवर्षि म तं शरणमाश्रयत् । देवताऽप्यमितायाख्यद् वलित्वा तं तथा स्थितम् ॥८॥(युग्मम्) देवी सुतारामादाय त्वमागच्छेसमान्ति कम् । इति मारीचिमाज्ञाप्य सोऽथ श्री विजयान्वितः ॥ १० ॥ सर्वसैन्ययुतो भेरीभाङ्कारैः पूरयन् दिशः । बलभद्रमुनिं नन्तं तत्र सोमनगे ययौ ॥ ११ ॥ ( युग्मम् ) गत्वा जिनालये नत्वा स्तुत्वा च प्रथमं जिनम् । अभ्यमै बलदेवजेग्मतुस्तावुभावपि ॥ १२ ॥ देवीमादाय मारोचिरथागात्तत्र सत्वरम् । अर्पिताऽक्षतचारित्रा राज्ञः श्रोविजयस्य सा ॥ १३ ॥ उत्थायाशनिघोषोऽय क्षमयामास तो नृपौ। संमानितश्च ताभ्यां संजातास्ते गतमत्सरा: ॥ १४ ॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104