Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 526
________________ ५२६ सारस्वते तृतीयवृत्ती ष्ट्रभिः ष्ठः । ढि ढो लोपः । सहिवहोरोदवर्णस्य । सहिवहोर्धात्वोरकारस्य ओकारो भवति । सहतेऽसौ सोढा । वह प्रापणे । वहति इति वोढा ।। ऊदितों वा । ऊत् ऊकारः इत् यस्य स ऊदित् तस्मात् (पं० ए०) स्रो० वा (म० ए० ) अव्य० हबे ऊदिताद्धातोः गुपूरक्षणे षिधू मांगल्ये इत्यादेर्वा इडागमः वस्प्रत्याहारादेः कृत्प्रत्ययस्यैव । उदा० गुपू रक्षणे गुपू तृवणौ तृप० उपधाया लघांगुणः ऊदितो वा इति इडागमः स्वर० । उभयत्रापि (म० ए०) स्तुरार सेरा डित्त्वा स्वर० गोपिता गोप्ता गोपायतीति गोपिता गोपा। षिधू शाने मांगल्ये च । षिधू ' आदेः ष्णः स्नः' सिध् तृप० । उपधायाः लघोः। (म०ए०) ऊदितोवेत्येकत्रेडागमः द्वितीये तथोर्द्धः तुस्थानेधू झबेजबाः स्वर० उभयत्रापि (म-ए०) सेरा स्तुरार टिलोपः स्वर० सेधिता सेद्धा वा शब्दादेव इषु इच्छायामित्यस्य एष्टा एषिता षड्मर्षणे सहने 'आदेः ष्णः स्नः' सहते इति षोढा तृप्रत्ययः होढः तथोर्द्धः ' ष्टुभिः ष्टु' ढिढो लोपो दीर्घश्च सहिवहोरिति सहिवहोः षमर्पणे वझापणे इत्येतयोः धात्वोः संबंधिनोऽवर्णस्य अकारो भवति डकारलोपे सति न । दुःसह सह्यं भारवाट् इत्यादौ अकारो न भवति अनेन सा इत्यस्य सो सोद (म.ए.) स्तुरार सेरा इत्यादि कर्तृशब्दवत् एवं वहभापणे वहतीति वोढा । सूत्रम् । युव्वोरनाको । युव इत्येतयोरन अक इत्येतावादेशौ भवतः यथासंख्येन णित्त्वादृद्धिः। अत उपधायाः । पचति वा पाचयतीति पाचकः पाचकौ पाचकाः। देवशब्दवत् । पठति वा पाठयतीति पाठकः । एवं याचते वा याचयतीति याचकः । भवति वा भावयतीति भावकः । लुनाति वा लावयतीति लावकः । पुनाति वा पावयतीति पावकः । श्रुञ श्रवणे । शृणोति वा श्रावयतीति श्रावकः । युमिश्रणे । औ आव् यौति वा यावयतीति यावकः । वध हिंसायाम् । वधतीति वधकः । हनो घत् । हन्ति वा घातयतीति घातकः । जायते वा जनयतीति जनकः । जनिवध्योन वृद्धिः । मितां हस्वः। घटते वा घटयतीति घटकः। आतो युक् । आकारान्ताद्वातोर्युगागमो भवति मिति णिति

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601