Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 598
________________ ५. सारस्ववे तृतीयवृत्ती भुवो भावे क्यप् । नाम्नि उपपदे भुवो भावे क्यप् प्रत्ययो भवति । ब्रह्मणो भावः ब्रह्मभूयम् । स्त्यै ष्टयै शब्दसंघातयो। स्त्यायतेईट । डित्त्वाहिलोपः। संयोगान्तस्य लोपः। टित्त्वादीप् । स्त्यायति समूहं करोति सा स्त्री। लक्ष दर्शनाशङ्कनयोः। भुवोभावेक्यप् । भुवो भूधातो वे शब्दमचिनिमित्ते क्यप्प्रत्ययो भवति । कित्त्वाद्गुणोन । भू क्यप् प० य ब्रह्मपूर्वः (म० ए० ) अतो अम् ब्रह्मभूयं बह्मणो भावं ब्रह्मत्वं गतः आप्त इत्यर्थः । एवं देवंभूयं देवत्वम् । स्स्यायतेः इदि स्त्यायतेहातोः स्त्रीत्वे वाच्ये इट् प्रत्ययो भवति । डकारः ष्टिलोपार्थः । ष्टयैस्त्यै धातू शब्दसंघावयोः शब्दार्थे समूहार्थे च स्त्यै इट् पार डिवाहिलोपः संयोगांतस्पे. वि यलोपः स्वर०वित इत्ती (म० ए०) हसेपः स्त्री। लक्षतेरी मुट्च । लक्षते(तोरी प्रत्ययो भवति तस्य ईप्रत्ययस्य मुडागमश्च । लक्ष्यते पुमान अनया सा लक्ष्मीः। लक्षेरोमटच । लक्षेर्धातोः ईसत्ययो भवति वस्य च मुडागमः। लक्ष दर्शनांकनयोः लक्ष ईप प्र० मुटु ठित्त्वादादौ स्वर० (म० ए०) स्रो० लक्षवे इति लक्ष्मीः । अत्र ईबतत्वाभावात् सेर्लोपो नास्ति । वर्णात्कारः। वर्णमात्रात्कारः प्रत्ययो भवति । क इति वर्णः ककारः । व इति वर्षों वकारः । अ इति वर्णः अकारः । वर्णसमुदायादपि कारो दृश्यते । अहंकारः ओंकारः टकार: पकारः तकारः इत्यादि। वर्णात्कारः। वर्णनिर्देशे वाच्ये सति वर्णात् अकारादिऋकारांतात् अक्षरात् अग्रे कारपत्ययो भवति । क अग्रे कार प० ककारः, खकारः, गकारः, अकारः, इकारः, अत्र बहुलमित्यनुवर्चते । तेन अ, इ, उ, ऋ,ल,ह, य, र, ल, व, इत्यादी कारपत्ययः। वर्णनिर्देशे इति किं यथा अः कृष्णः इ. कामः, को ब्रह्मा, खमाकाशं इत्यादौ न इत्यादि । रादिफो वा । र इति वर्णः रेफ:-रकारः । रकारादीनि नामानि श्रुत्वा तत्रास रावणः । रत्नानि च रमण्यश्च संत्रासं जनयन्ति मे ॥ रकारादीनि नामानि शृण्वतो मम पार्वति । मनः प्रसनतामेति रामनामाभिशङ्कया।

Loading...

Page Navigation
1 ... 596 597 598 599 600 601