Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 599
________________ क्त्वादिप्रक्रिया | 988 रादिको वा । राम राक्षरात् वा विकल्पेन इफप्रत्ययो भवतिं । र अप्रें इफ म० अइ ए रेफः (म० ए० ) स्रो पक्षे कार प्र० रकार इति प्रयोगे संमतिमाह रकारादीनि श्लोकः हे पार्वति रकारादीनि रकार: आदिर्येषां तानि नामानि शृण्वतः सतो मम मनः प्रसन्नतां नैर्मल्यं सानंदत्वं एति प्राप्नोति कया रामनामाभिशंकया रकारादीनि नामान्युच्चरन् कदाचिद्रामनामाद्युच्चरेदित्याशंकया इत्याकांक्षया । अथोपसंहारसूत्रमाह । लोकाच्छेषस्य सिद्धिर्यथा मातरादेः । अस्य सारस्वतव्याकरणस्य ये शेषप्रयोगास्तेषां लोकात् अन्यव्याकरणात्सिद्धिर्भवति यथा मातरादेः । इत्यादि प्रयोगानुसारेण बोद्धव्यम् । लोकाच्छेषस्य सिद्धिः । लोक ( पं० ए० ) ङसिरत सवर्णे ० शेष (ष०ए० ) डस्य सिद्धि: (म० ए० ) स्त्रो० उक्तादन्यः शेषस्तस्य शेषस्य अत्र व्याकरणेऽनुतस्य सिद्धिः साधनं लोकादन्यव्याकरणात् ज्ञातव्या । यथा मातरपितरौ इत्यादीनां शब्दानां सिद्धिर्लोकात् ज्ञेया । शास्त्रांवे च मंगलाचरणं युज्यते अतोऽत्र मातृपित्रो. र्नामग्रहणेन मंगलमप्यस्ति । अथ कविः स्वनामगर्भमलंकार श्लोकमाह । स्वरूपान्तोऽनुभृत्यादिः शब्दोऽभूद्यत्र सार्थकः ॥ स मस्करी शुभां चक्रे प्रक्रियां चतुरोचिताम् ॥ स्वरूपांतइति । स मस्करी मस्करी वंशदंडो अस्त्यस्येति मस्करी सांन्या. सिकः मक्रियां शुभां वीं चक्रे कृतवान् कथंभूतां प्रक्रियां चतुरोचितां चतुराणां सु. बुद्धीनां पुरुषाणां उचिता योग्या तां० स कः यत्र यस्मिन् मस्करिणि अनुभूत्यादिः अनुभूतिः इति आदौ यस्य स अनुभूत्यादिः तथा स्वरूपतिः स्वरूप इति शब्दों अंते यस्य स अर्थात् अनुभूतिस्वरूप इति वाचकः शब्द सार्थकः अनुभूतिर्ज्ञानमेव स्वरूपं यस्येत्पर्थसहितो अभूत् इत्यनेन अनुभूतिस्वरूपनामा सांन्यासिकः इमां प्रक्रियां शुभ ऋवीं सरलां चक्रे शुभ इत्यनेन स्वकपोलकल्पनानिरासः कृतः । अथ श्रावकश्रोतॄणामभीष्टसिद्धेष्टदेवता शिषमाह । अवताsो हयग्रीवः कमलावर ईश्वरः । सुरासुरनराकारमधुपापीतपत्कजः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यानुभृतिस्वरूपाचार्यविरचितायां कृदन्तप्रक्रियायां क्त्वादिप्रत्ययप्रक्रिया समाप्ता ॥ ॥ समाप्ता चेयं तृतीया वृत्तिः ॥ ॥ ॥ ॥

Loading...

Page Navigation
1 ... 597 598 599 600 601