Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
५९७
क्वादिप्रक्रिया। सत्कालत्वेऽपि द्वयोः क्रिययोः समकालत्वेपि क्यम्प्रत्ययो दृश्यते मील मीलने । संपूर्वाक्यप्प स्वर० [अ० ए० ] अन्य नेत्रे संमील्य हसति समकालमेव नेत्रे संमीलति हसति च अत्र संमीलनहसनयोः समकालीनत्वात् पूर्वकालं विनापि तत्काले. ऽपि क्याम० हुदा दा विभाइ पूर्वः क्या प्रत्ययः इयंस्वरे० स्वर० विभाङ्पूर्वको पाधातुर्मुखमसारणार्थस्तेन मुखं व्यादाय प्रसार्य स्वपिति अत्रापि मुखमसारणस्वप्नयोः समकालीनत्वात् समानकाले क्य० क्य० क्वचिदिनकर्तृकेपिक्यपत्ययो दृश्यते मत्मसू. तिमनारभ्य प्रसूति त्वां शशाप सेति अवधार्य एवमेव सांद्रसंतमसमित्यादि। सूत्रम् ।
पौनःपुन्ये णम्पदं विश्व । समानकर्तृकेषु घातुषु प्रयुज्यमानेषु पूर्वकाले पौनःपुन्या घातोर्णम् प्रत्ययो भवति णमन्तस्य पदस्य द्विर्वचनं भवति । आतो युक् । पीत्वा पीत्वा इति पायंपायं गच्छति । आदरे वीप्सायां द्विर्भावः । भुक्त्वा भुक्त्वा इति भोजभोज व्रजति । स्मृत्वा स्मृत्वा इति स्मारस्मारं नमति शिवम् । कथमादिषु स्वार्थे कुजो णम् । कथं इत्थं अन्यथा एवं एतेषु प्रयुज्यमानेषु स्वार्थे कत्रो णम् प्रत्ययो भवति । कथंकार इत्यंकारं अन्यथाकार एवंकारं पठति । एवं पठतीत्यर्थः । समूलाकृतजीवेषु हन्कञ्ग्रहां णम वाच्यः, स्वार्थे तेषामनुप्रयोगश्च । समूलपातं हन्ति अकृतकारं करोति । जीवं गृहीत्वा इति जीवग्राह गृह्णाति इत्यादि। पुनःपुनर्भवतीति पौनःपुन्यं तस्मिन् ( स०ए०) अइए. पाम् (म० ए०) हसेपः पद (म० ए०) अवो अम् द्विः (म० ए० ) अध्य० स्व० (म० ए०) पौनःपुन्ये वारंवारार्थे धातोः पूर्वकाले णम्पत्ययो भवति तस्य च णमसहितस्य पदस्य द्वित्वं भवति समानकर्तृकेषु धातुष प्रयुज्यमानेषु सत्सु पा पाने पाणम्म अम् भातोयुक् स्वर० मोनु० द्वित्वं (म० ए०) अव्य० पायं पायं गच्छवि पीत्वा पीत्वा यातीत्यर्थः । भुज् णम् अम् लघूपधत्वाद्गुणः स्वर० द्वित्वं (म० ए०) अव्य० भोज भोजं व्रजति । पुनः पुनर्मुक्त्वा यातीत्यर्थः । एवं कारंकारं स्मारं स्मार द्विश्वेवि चकारात् समूलघातं हंति जीवनाहं गृह्णाति केशमाहं युध्यति इत्यादि. ष्वपि णम् कथमादिषु पूर्वपदेषु सत्सु स्वार्थे कथमादीनामेवार्थे कृञ् धातोः णम् प्रत्ययो भवति णित्त्वादृद्धिः कथं पूर्वः णम् प० अम् धातोनामिन इति वृद्धिः खर० (म० ए०) अव्यः कथंकारं कथमित्यर्थः । एवं इत्थंकारं इत्थमित्यर्थः। .

Page Navigation
1 ... 595 596 597 598 599 600 601