Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
५८८
सारस्वते तृतीयवृत्ती ऋदुपधाद क्यप् । ऋकारोपधाद्धातोः क्यप् प्रत्ययो भवति भावकार्ययोः । कृती छेदने । कर्ति तुमह कृत्यम् । नितरां कर्तितुं योग्यं निकत्यं वृदयम् । वृत्यते तत् वृत्यम् । कृपिघृत्योर्न क्यप् । कपू सामर्थ्ये । कपों रो लः। कल्प्यम् ।चूत दीप्तौ । चपम् । मृजो वा क्यप् । मृज्य मार्यम् । हस्वाच क्यप् । हस्वान्ताद्धातो वे क्यप् प्रत्ययो भवति । तस्य ग्रहणे तदन्तस्य ग्रहणम्। क्रियते तत्कृत्यम् । कृत्रा क्यपि वा रिङ् वक्तव्यः तुगभावश्च । कृत्या क्रिया । डिन्दनेकाक्षरोऽप्यादेशस्तदन्तस्यैववक्तव्यः । गुप्गुहोः क्यप्। गोप्यु योग्यं गुप्यम् । गृहितुं योग्यम् । वदेः क्या भावादौ । वर्षातोः क्यप् प्रत्ययो भवति भावादौ । मृषा उद्यते इति मृषोद्यम् । ब्रह्मणा उद्यते या कथा सा ब्रह्मोद्या। ग्रहः क्यप् । अर्जुनगृह्या सेना । इण स्तु वृह मृ शास् जु खन् एभ्यः क्यप वाच्यः । तुक् । ईयते इति इत्यः स्तुत्यः वृत्यः । हङ् आदरे । हत्यः भूत्यः । शासेरिः । शिष्यः । जुष् प्रीतिसेवनयोः । जुष्यः । खन एत्वं क्यपि वाच्यम् । खन्यते इति खेयम् । भियोद्धयौ नदे निपात्येते । भिनत्ति कूलमिति भिद्यः । उज्झ उत्सर्गे। उज्झति जलमिति उदयः नदः। न किम् । भेला उज्झिता । वृष्योर्वा क्यप् । क्रियते सत् कृत्यम् । कर्तुं योग्य कार्यम् । वृष वृष्टौ । वृष्यं वष्यम् । कृत्याः पञ्च समाख्याता ध्यणक्यपौ भावकर्मणोः । तव्यानीयौ स्वरायश्च शब्दशास्त्रविचक्षणैः ॥ ॥ इति कृत्यप्रक्रिया ॥ ऋदुपधात् क्यप् । अदुपधात् ऋत प्रकारः उपधा यस्य स अदुपधः

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601