Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
५७०
सारस्वते तृतीयवृत्ती
ओ मानुस्वारेः ओं भवतीति ओं जम्पूर्वः जनाम् अवतीतिजनों, विश्ववयतीति विश्वों, जनौं जनोमो जनोमः इत्यादि यथा अवतीति अव्ययमेतत् ।
अतिबृहिभ्यां मनिण् । अत सातत्यगमने । सततं अततीति आत्मा वा अतति अखिलजनान्तर्निवासित्वेन सुकृतदुष्कृतकर्माणि पश्यतीति आत्मा । बृहि वृद्धौ ।
अतधातुः सातत्यगमने निरंतरगमने इत्यर्थः । अतति सातत्येन गच्छति तांस्तान् भावानिति आत्मा अत् मनिणू म० इकार उच्चारणार्थः णकारो वृद्धयर्थः । मन् अतउपधायाः स्वर० आत्मन् (म० ए० ) नोपधाया दीर्घः हसेपः नानो० । मन्युपधाया ऋ रः । मनिण्प्रत्यये परे उपधाया ऋकारस्य रेफो भवति बृंहतीति ब्रह्मा ।
बृहबृहिवृद्धौ बृह बृहति बृंहति वेति ब्रह्म मन्म० मन्युपधाया करः मन्युपधायाः ( ष०ए० ) ऋरः मनि परे उपधायां उपधासंबंधिन ऋकारस्य रो भवति वृइत्यस्य ब्र ब्रह्मन् इति सिद्धं (म० ए० ) नपुंसकात् स्यमो० नानोनो० पुल्लिंगेतु ब्रह्मा स्वयं बृहत्त्वात् अन्येषां बृंहणत्वाद्वा महत्त्वाद्वयापकत्वाद्वा ब्रह्म आगमजमनित्यमिति न्यायात् इदित इति न नुम् ।
I
1
धृधृपदो मः । घृ क्षरणे दोप्तौ च । घरतीति वा प्रियते इति धर्मः । धू धारणे । धरतीति वा ध्रियतेऽसौ धर्मः । पद गतौ । पद्यते तत् पद्मम् ॥ ऋ स्तु सु हृ हु मृक्षि क्षु भामा या वा जक्ष रैनी श्यैङ् पद एभ्यो मः प्रत्ययो भवति । ऋ गतौ । ऋच्छतीति अर्मः नेत्ररोगः । स्तौतीति स्तोमः । षूङ् प्रसवे । सूतेऽसौ सोमः । हर्मः । जुहोतीति होमः । म्रियते इति मर्मः । क्षि निवासगत्योः । क्षयतीति क्षेमः । टुक्षु शब्दे । क्षौतीति क्षोमः । भातीति भामः । मामः । यातीति यामः । वातीति वामः । जक्ष भक्षहसनयोः । जक्ष्मः ।। रायतीति रामः नेमः । इयैड् दीप्तौ । श्यायति इति श्यामः । पद्मः । भीध्वोर्वा मक् । बिभेत्यस्मादिति भीमः । धूयतेऽसौ धूमः ।

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601