SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५७० सारस्वते तृतीयवृत्ती ओ मानुस्वारेः ओं भवतीति ओं जम्पूर्वः जनाम् अवतीतिजनों, विश्ववयतीति विश्वों, जनौं जनोमो जनोमः इत्यादि यथा अवतीति अव्ययमेतत् । अतिबृहिभ्यां मनिण् । अत सातत्यगमने । सततं अततीति आत्मा वा अतति अखिलजनान्तर्निवासित्वेन सुकृतदुष्कृतकर्माणि पश्यतीति आत्मा । बृहि वृद्धौ । अतधातुः सातत्यगमने निरंतरगमने इत्यर्थः । अतति सातत्येन गच्छति तांस्तान् भावानिति आत्मा अत् मनिणू म० इकार उच्चारणार्थः णकारो वृद्धयर्थः । मन् अतउपधायाः स्वर० आत्मन् (म० ए० ) नोपधाया दीर्घः हसेपः नानो० । मन्युपधाया ऋ रः । मनिण्प्रत्यये परे उपधाया ऋकारस्य रेफो भवति बृंहतीति ब्रह्मा । बृहबृहिवृद्धौ बृह बृहति बृंहति वेति ब्रह्म मन्म० मन्युपधाया करः मन्युपधायाः ( ष०ए० ) ऋरः मनि परे उपधायां उपधासंबंधिन ऋकारस्य रो भवति वृइत्यस्य ब्र ब्रह्मन् इति सिद्धं (म० ए० ) नपुंसकात् स्यमो० नानोनो० पुल्लिंगेतु ब्रह्मा स्वयं बृहत्त्वात् अन्येषां बृंहणत्वाद्वा महत्त्वाद्वयापकत्वाद्वा ब्रह्म आगमजमनित्यमिति न्यायात् इदित इति न नुम् । I 1 धृधृपदो मः । घृ क्षरणे दोप्तौ च । घरतीति वा प्रियते इति धर्मः । धू धारणे । धरतीति वा ध्रियतेऽसौ धर्मः । पद गतौ । पद्यते तत् पद्मम् ॥ ऋ स्तु सु हृ हु मृक्षि क्षु भामा या वा जक्ष रैनी श्यैङ् पद एभ्यो मः प्रत्ययो भवति । ऋ गतौ । ऋच्छतीति अर्मः नेत्ररोगः । स्तौतीति स्तोमः । षूङ् प्रसवे । सूतेऽसौ सोमः । हर्मः । जुहोतीति होमः । म्रियते इति मर्मः । क्षि निवासगत्योः । क्षयतीति क्षेमः । टुक्षु शब्दे । क्षौतीति क्षोमः । भातीति भामः । मामः । यातीति यामः । वातीति वामः । जक्ष भक्षहसनयोः । जक्ष्मः ।। रायतीति रामः नेमः । इयैड् दीप्तौ । श्यायति इति श्यामः । पद्मः । भीध्वोर्वा मक् । बिभेत्यस्मादिति भीमः । धूयतेऽसौ धूमः ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy