Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 562
________________ १६२ सारस्वते तृतीयवृत्तौ। . अलंकृञ् निराकृञ् प्रजन उत्पच उत्पत् उत्पद् ग्रस् उन्मदूरुच् अपत्र वृतु वृधु सह चर भू भ्राज् व्यन्त एभ्य इष्णुः । अलंकरोतीत्येवंशीलः अलंकरिष्णुः । निराकरिष्णुः । प्रजायते इत्यवंशीलः प्रजनिष्णुः । उत्पचतीत्येवंशीला उत्पचिष्णुः । पल पतने । उत्पततीत्येवंशीलः उत्पतिष्णुः । पद् गतौ । उत्पद्यते इत्येवंशीलः उत्पदिष्णुः। ग्रस् अदने । ग्रसतीत्यवंशीलः ग्रसिष्णुः । उन्मायतीत्येवंशीलः उन्मदिष्णुः । रुचि दीप्तौ । रोचतीत्येवंशीला रोचिष्णुः । त्रपूष् लज्जायाम् । अपत्रपति वा अपत्रपते इत्येवंशीलः अपत्रपिष्णुः । वतु वर्तने । वर्तते इत्येवंशील: वर्तिष्णुः । वृधुङ् वृद्धौ । वर्धते इत्येवंशीलः वर्धिष्णुः । सहति सहते वेत्येवंशीलः सहिष्णुः । चरतीत्येवंशीलःचरिष्णुः भविष्णुः । भ्रातृ दीप्तौ । भ्राजते इति भ्राजिष्णुः । इष्णुप्रत्यये परे ज्यन्तानां जिलोपाभावो वाच्यः । कारयतीत्येवंशीला कारयिष्णुः । एते इष्णुप्रत्ययान्ताः । इष्णुस्नुकः । इष्णुश्च स्नुश्च कुश्च इष्णुस्नुकुः नपुंसकात्स्य० धातोः शीलेऽर्थे इष्णु स्नु ल एते त्रयः प्रत्यया भवंति यथायोग्येन । वाज् भूसह रुच चर वृध वृत् प्रजन अपनप अलंकृञ् निराकृञ् उन्मद उत्पद उत्पच एभ्य इण्णुः उदा० कृअलंपूर्वः अलंकरणशीलो अलंकरिष्णुः इण्णुप० गुणः स्वर० निराङ्पूर्वः निराकरिष्णुः निराकत्तुं शीलमस्येति निराकरिष्णुःभानुशब्दवत्। अस्मदने असिष्णुः सहिष्णुः उत्पविष्णुः उन्मदिष्णुः इत्यादि । ग्ला जि स्था भू म्ला क्षि पच् यज् परिमृज् एभ्यः स्नुः। ग्लै हर्षक्षये । ग्लायतीत्येवंशीलः ग्लास्नुः । जयतीत्येवंशील: जिष्णुः । भवतीत्येवंशीलः भूष्णुः । जिभ्वोः स्नौ गुणाभावो न इट् क्षेश्च तथा । तिष्ठतीत्येवंशीलः स्थास्नुः । क्षि क्षये । क्षयतीत्येवंशीलः विष्णुः। पचतीत्येवंशील: पक्ष्णुः । यजतीत्येवंशीलः यक्ष्णुः । मृजूष् शुद्धौ । मृजेर्गुण

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601