Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 191
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः । धर्मवदधर्मेऽप्येवं प्रमाणानीत्यर्थः ॥ २३ ॥ अर्थात् सिद्धिश्चेत् समानमुभयोः ॥ २४ ॥ ननु विध्यन्यथानुपपत्तिरूपयार्थापत्त्वा धर्मसिद्धिः सा च नास्त्यधर्म इति कथं श्रौतलिङ्गातिदेशोऽधर्मं इति चेत्र यतः समानमुभयोर्धर्माधर्मयोर्लिङ्गमस्ति परदाराव गच्छेदिति निषेधविध्यादेरेवाधर्मलिङ्गत्वादित्यर्थः ॥ २४ ॥ ननु धर्मादिकं चेत खोकतं तर्हि पुरुषाणां धर्मादिमत्त्वेन परिणामाद्यापत्तिरित्याशङ्कां परिहरति । अन्तःकरणधर्मत्वं धर्मादीनाम् ॥ २५ ॥ श्रादिशब्देन वैशेषिकशास्त्रोक्ताः सर्व आत्मविशेषगुणा गृह्यन्ते । न चैवं प्रलयेऽन्तः करणाभावाडर्मादिकं क तिष्ठत्विति वाच्यम् । आकाशवदन्तः करण स्यात्यन्तविनाशाभावात् । अन्तःकरणं हि काय्र्यकारणोभयरूपमिति प्रागेव व्याख्यातम् । अतः कारणावस्थे प्रकृत्यंशविशेषेऽन्तःकरणे धर्माधर्मसंस्कारादिकं तिष्ठतीति ॥ २५ ॥ १८३ स्यादेतत् । प्रकृतिकाय्यैवैचित्रयाच्छ्रुत्यादेव धर्मादिसिद्धिरिति यदुक्तं तदयुक्तम् । त्रिगुणात्मकप्रकृतस्तत्कार्य्यीणां च भवतां श्रुत्यैव बाधात् । साची चेता केवलो निर्गुणश्च । अथात आदेशो नेति नेति । व्यशब्दमस्पर्शमरूपमव्ययं तथा रसं नित्यमगन्धवच्च यत् । इत्यादिना । न निरोधो न चोत्पत्तिः । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यादिना चेति । तदेतत् परिहरति । गुणादीनां च नात्यन्तबाधः ॥ २६ ॥ गुणानां सत्त्वादीनां यद्दर्माणां च सुखादीनां तत्कार्य्या For Private And Personal Use Only

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254