Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 222
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१४ सांख्यदर्शनम्। शोलामिव । बुद्धित्तिसम्बन्धकाले तु परिच्छिन्नचिद्रूपत्वेनाभिव्यक्त्या परिच्छेदाभिमानः। तथा वृत्तिप्रतिविम्बवशाह :खादिमालिन्यमिव च भवतीति तत् सर्वमोपाधिकमेव । उपाध्याख्यनिमित्तान्वयव्यतिरेकानुविधानात् स्फटिकलौहित्यवदिति भावः। तथा च योगसूत्रम् । इत्तिसारूप्यमितरत्रेति। अस्मच्छास्त्रे च ब्रह्म शब्द औपाधिकपरिच्छेदमालिन्यादिरहितपरिपूर्णचेतनसामान्यवाची न तु ब्रह्मामीमांसायामिवैश्वर्योपलक्षितपुरुषमात्रवाचौति विवक्तव्यम्। प्रत्रैते श्लोकाः शिष्यव्युत्पत्त्यर्थमुच्यन्ते। चिदाकाशेऽनभिव्यक्त नानाकारैरितस्ततः । धोरटन्तौ सह व्यक्त्या चिदटन्ती प्रदर्शयेत् ॥ वस्तुतस्तु सदा पूर्ण मेकरूपं च चिनमः । वृत्तिशून्यप्रदेशेषु दृश्याभावान्न पश्यति ॥ चक्षुषो रूपवत् पुसो दृश्या वृत्तिहि नेतरत् । समाध्यादौ च सा नास्तीत्यतः पूर्णः पुमांस्तदा ॥११६॥ तर्हि कः सुषुप्तिसमाधिभ्यां मोक्षस्य विशेषस्तत्राह। हयोः सवौजमन्यत्र ततिः ॥ ११७॥ हयोः समाधिसुषु त्योः सवौज बन्धवौजसहितं ब्रह्मत्वमन्यत्र मोक्षे वौजस्याभाव इति विशेष इत्यर्थः । ननु चेत् समा. ध्यादी बन्धवोजमस्ति तहि तेनैव परिच्छेदात् कथं ब्रह्मत्वमिति चेत्र। बन्धवौजस्य कर्मादेस्तदानौमुपाधावेवावस्थानात् । न तु चेतनेषु पुरुषे च तेषामप्रतिविम्बनादिति । जाग्रदाधव थायां तु बुरित्तिप्रतिविम्बवशादौपाधिको बन्ध इत्यसकदावेदितम् ॥ ननु पातञ्जले तद्भाष्ये चासम्प्रज्ञातयोगो नि:ज उक्तः। अत्र कथं सवीज उच्यत इति चेन्न । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254