Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२४
सांख्यदर्शनम् ।
चेति । तथा च स्फटिके लौहित्यमिव पुरुषे प्रतिविम्वरूपेण दुःखसत्त्वात् सन्निवृत्तिरेव पुरुषार्थः । प्रतिविम्बद्दारकदुःखसम्बन्धस्यैव भोगतया प्रतिविम्ब रूपेणैव दुःखस्य हेयत्वादिति
॥ ११ ॥
व्यविवेकमूलः पुरुषे गुणबन्धोऽविवेकस्तु किम्मूलक इत्याकाङ्गायामाह ।
अनादिरविवेकोऽन्यथा दोषदयप्रसक्तः ॥ १२ ॥
अग्टहीतासंग मुभयविषयक ज्ञानमविवेकः । स च प्रवाहरूपेणानादिश्चित्तधमः प्रलये वासनारूपेण तिष्ठति । अन्यथा तस्य सादित्वे दोषइयप्रमङ्गात् । सादित्वं हि स्वत एवोत्पादे मुक्तस्यापि बन्धापत्तिः । कर्मादिजन्यत्वं च कर्मादिकं प्रत्यपि कारणत्व नाविवेकान्तरान्वेषणेऽनवस्येत्यर्थः । अयं चाविवेको वृत्तिरूपः प्रतिविम्बात्मना पुरुषधर्म इव भवतीत्यतः पुरुषस्य बन्धप्रयोजक इति प्रागेवोक्त वच्यते च
॥ १२ ॥
ननु चेदनादिस्तर्हि नित्यः स्यादिति तत्राह । न नित्यः स्यादात्मवदन्यथानुच्छित्तिः ॥ १३ ॥ श्रभवन्नित्योऽखण्डानादिर्न भवति किन्तु प्रवाहरूपेणानादिः । अन्यथानादिभावस्योच्छ दानुपपत्तेरित्यर्थः ॥ १३ ॥
बन्धकारणमुक्ता मोक्षकारणमाह ।
प्रतिनियतकारणनाश्यत्वमस्य ध्वान्तवत् ॥१४॥
अस्य बन्धकारणस्याविवेकस्य शुक्तिरजतादिस्थले प्रतिनियतं यत्राशकारणं विवेकस्तनाश्यत्व' तमोवत् । अन्धकारो हि प्रतिनियतेनालोकेनैव नाश्यते नान्यसाधनेनेत्यर्थः ।
तदुक्तं विष्णुपुराणे ।
For Private And Personal Use Only

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254