Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः ।
उत्तरं चेत्या
वास्त्येवास्मद्विरोध इत्याशङ्क्य दूषणान्तरमाह । दिना । अतवादिनामुत्तरं सिद्धान्तश्च न घटते । च्यात्मसाधकप्रमाणस्याभावात् । तदङ्गीकारे च तेनैवाई तहानिरिति जितं नैरात्मावादिभिरित्यर्थः ॥ ४८ ॥
ननु स्वप्रकाशत व्यात्मा सेत्स्यति तत्राह ।
प्रकाशतस्तत्सिङ्घौ कर्मकर्त्तृविरोधः ॥ ४६ ॥
चैतन्यरूपप्रकाशतश्चैतन्यसिध कर्मकर्तृविरोध इत्यर्थः । प्रकाश्यप्रकाशसम्बन्ध हि प्रकाशनमालोकादिषु दृष्टं स्वस्य साक्षात् स्वस्मिन् सम्बन्धश्च विरुद्ध इति । श्रमन्मते तु बुद्धिवृत्त्याख्यप्रमाणाङ्गीकारात् तद्वारा प्रतिविम्वरूपस्य स्वस्य त्रिम्बरूपं स्वस्मिन् सम्बन्धो घटते । यथा सूर्खे जलद्दारा प्रतिविम्ब रूपख सम्बन्ध इति भावः । श्रात्मनः स्वप्रकाशत्व श्रुतिस्त्वनन्द्योपाधिकप्रकाशादिपरा बोध्या ॥ ४८ ॥
२३५
ननु नान्ति कर्मकर्त्तृविरोधः स्वनिष्ठ प्रकाशधर्मद्वारा स्वस्य स्वसम्बन्धसम्भवात् । यथा वैशेषिकाणां स्वनिष्ठज्ञानद्वारा स्वस्थ स्वयं विषय इति तत्राह ।
जड़व्यावृत्तो जड़ प्रकाशयति चिद्रूपः ॥५०॥
चेतने प्रकाशरूपधर्मः सूर्य्यादिष्विव नास्ति किन्तु चित्स्वरूप एव पदार्थों जड़ प्रकाशयति । यतो जड़व्यावृत्तिमात्रेण चिदित्युच्यते न तु जड़विलक्षणधर्मवत्तयेत्यर्थः । श्रत एव निर्धर्मतया स एष नेति नेतीत्येव श्रुत्योपदिश्यते न तु विधिमुखतयेति । तथा च स्मृतिरपि ।
इदं तदिति निर्देष्टुं गुरुणापि न शक्यते ।
इति । जड़व्यावृत्ताविति पाठेऽपि हेतौ सप्तम्यायमेवार्थः । यस्मिंश्व सूत्रे जड़मेव प्रकाशयांत चिद्रूपो नत्वात्मानमिति
For Private And Personal Use Only

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254