Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्।
___ अभिमानवृत्तिकमन्तःकरणमहङ्कारः स एव कृतिमान् । अभिमानोत्तरमेव प्रायशः प्रवृत्तिदर्शनात् । न तु पुरुषोऽपरिणामित्वादित्यर्थः । पूर्वं च धर्मादिकं बुद्धेरिति यदुक्तं सदेकस्यैवान्तःकरणस्य वृत्तिमात्रभेदाशयेन ॥ ५४॥ चिदवसाना भुक्तिस्तत्कर्मार्जितत्वात् ॥५५॥
अहङ्कारस्य कर्तत्वेऽपि भोगश्चित्य व पर्यवसन्त्रो भवति । पहङ्कारस्य संहतत्वेन परार्थत्वात्। नन्वेवमन्यनिष्ठकर्मणान्यस्य भोगे पुरुषविशेषनियमो न स्यात् तत्राह। तत्कर्मार्जितत्वादिति। अहङ्कारेणासञ्जितं तस्याचितौ यत् कर्म तज्जन्यत्वाडोगस्येत्यर्थः । तथा च योऽहङ्कारो यं पुरुषमादायाचेतनेऽहं ममेति वृत्तिं करोति तस्याहङ्कारस्य कर्म तस्यात्मन उच्यते । तेनैव च कर्मणा तत्त्रात्मनि भोगोऽयंत इति नातिप्रसङ्ग इत्याशयः ॥ ५५ ॥
ब्रह्मलोकान्तगतिभिर्नास्ति निष्कतिरिति पूर्वोतो कारणं दर्शयति । चन्द्रादिलोकेऽप्यावृत्तिर्निमित्तसझावात् ॥५६॥ निमित्तमविवेककर्मादिकम् । सुगममन्यत् ॥ ५६ ॥ ननु तत्तलोकवासिजनोपदेशादनावृत्तिः स्यात् तत्राह ।
लोकस्य नोपदेशात् सिदिः पूर्ववत् ॥५७॥ यघा पूर्वस्य मनुष्यलोकस्योपदेशमात्रात्र सिद्धिर्ज्ञाननिष्यत्तिरेवं तत्तलोकस्थलोकस्योपटेशमात्रात् तद्गतानां ज्ञानमिष्यत्तिनं नियमेन भवतीत्यर्थः ॥ ५७ ॥ नन्वेवं ब्रह्मलोकादनारत्तिरिति श्रुतेः का गतिस्तत्राह ।
परम्पर्येण तत्सिद्दौ विमुक्तिश्रुतिः ॥५॥ ब्रह्मलोकादिगतानां श्रवणमननादिपरम्परया प्रायशो
For Private And Personal Use Only

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254