Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 248
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४० सांख्यदर्शनम्। कादिद्वारत्ववदित्यर्थः। अतः स्वायसंयोगसम्बन्धेनैवादृष्टसम्बन्धः शुक्रादिषु वक्त व्यः। तथा च सिद्धमदृष्टवदात्मसंयोगरूपेणाधिष्ठानस्य भोगोपकरणनिर्माणहेतुत्वमिति भावः ॥६१॥ वैशेषिकादिनयेनादृष्टस्य सम्बन्धघटकतयात्मनाऽधिष्ठारत्वं स्थापितं स्वसिद्धान्ते त्वदृष्टादौनामात्मधर्मत्वाभावात तहारा भोत हेतुत्वमेव न सम्भवतीत्याह । निर्गुणत्वात् तदसम्भवादहकारधर्मा येते भोक्तनिंगणवेनादृष्टासम्भवाच नादृष्ट हारकत्वम् । हि यस्मादेतेऽदृष्टादयोऽहङ्कारस्यान्तःकरणमामान्यस्यैव धर्मा इत्यर्थः । तथा चास्मन्मते हारनैरपेक्ष्येण संयोगमात्रेण साक्षादेव भोक्तरधिष्ठानं मिध्यतीति भावः ॥ ६२ ॥ ननु चेत् पुरुषो व्यापकस्तहि बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ इति श्रुतिप्रतिपादितं जीवपरिच्छिन्नत्व मनुपपन्नम् तथेश्वरप्रतिषेधात् पुरुषाणां चैकरूप्याज्जीवात्मपरमात्मविभागोऽपि शास्त्रीयोऽनुपपन्न इति। तामिमामाशां परिहर्तमाह विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् ॥६॥ जीवबलप्राणधारणयोरिति व्युत्पत्त्या जीवत्वं प्राणित्वं तचाहङ्कारविशिष्ट पुरुषस्य धर्मो न तु केवलपुरुषस्य । कुतः । अन्वयव्यतिरेकात्। अहङ्कारवतामेव सामर्थ्यातिशयप्राणधारणयोदर्शनात्। तच्छ्न्यानां च चित्तवृत्तिनिरोधस्यैव दर्शनात्। प्रकृत्तिहेतुरागोत्पादकस्याहङ्कारस्याभावादित्यर्थः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254