Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 252
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ सांख्यदर्शनम्। छेदः परमपुरुषार्थ इत्यर्थः । तदेतदादो प्रतिज्ञातं विवि पटुःखात्यन्तनिवत्तिरत्यन्तपुरुषार्थ इति । नन्वत्र सुखदुःखसाधारमाभोगनिवृत्तिः पुरुषार्थ उच्यते तत्र दुःखमात्रनिवृत्तिरिति कथं तत्रोक्त स्यानोपसंहार इति चेन्न । शब्दभेदेऽभ्यर्थाभेटात । सुख हि तावद्द खपक्षे निक्षिप्तमिति सुखभोगोऽपि दु:खभोग एव दुःखभोगोऽपि प्रतिविम्बरूपेण पुरुषे दुःखसम्बन्ध एव स्वतो नित्यनिर्दु:खत्वे न च प्रथमसूत्रेऽपि प्रतिविम्बरूपेणैव दुःखनिवृत्तिर्विक्षिप्तेत्येक एवार्थ उपक्रमोपसंहारसूत्रयोरिति। बहुलांशस्य हिरात्ति: शास्त्र समास्वर्था ॥ ७० ॥ शास्त्र मुख्यार्थविस्तारस्तन्त्राख्येऽनुक्त पूरणैः । षष्ठाध्याये कृतः पश्चाहाक्यार्थचोपसंहृतः ॥ तदिदं सांख्य शास्त्र कपिलमूर्ति भगवान् विष्णुरखिललोकहिताय प्रकाशित गन् यत् तत्र वेदान्तिब्रुवः कश्चिदाह । मांख्यप्रणेता कपिलो न विष्णुः । किन्त्वग्न्यवतारः कपिलान्तरम् । अग्निः म कपिलो नाम सांख्यशास्त्रप्रवर्तकः । इति स्मृत रिति । तल्लोकव्यामोहनमात्रम् । एतन्मे जन्म लोकेऽस्मिन् मुमुक्षूणां दुराशवात् । प्रसख्यानाय तत्त्वानां सम्मतायात्मदर्शनम् ॥ इत्यादिस्मृतिषु विषखवतारस्य देवहूतिपुत्रस्यैव सांख्योपटेष्टत्वावगमात् । कपिलहयकल्पनागौरवाच। तत्र चाग्निप्राब्दोऽग्न्याख्यश त्यावेशादेव प्रयुक्तः। यथा कालोऽस्मि लोकक्षय कत् प्रवृद्धः । . इति श्रीकृष्णवाक्यकालश त्यावेशादेय कालशब्दः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 250 251 252 253 254