Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः।
२४१
तथा चान्तःकरणोपाधिकं जीवस्य परिच्छिन्नत्वं परमात्माख्यात् केवलपुरुषाद्भिन्नत्वं चेति भावः । अनेन सूत्रेण विशिटस्य मोतृत्व वा त्वमहम्प्रत्ययगोचरत्व वा नोक्तम् । साक्षात्काररूपस्य भोगस्याहङ्कारधर्मवाभावात् । त्वमहन्धर्मिपुरस्कारेण विवेकानुपपत्तेश्च । किन्तु ।
यदा त्वभेदविज्ञानं जीवात्मपरमात्मनोः। भवेत् तदा मुनिश्रेष्ठा: पाशच्छेदो भविथति ॥ आत्मानं द्विविधं प्राहुः परापरविभेदतः । परस्तु निर्गुण: प्रोक्त अहङ्कारयुतोऽपर : ॥ इत्यादिवाक्यशतोतो जीवात्मपरमात्मविभाग एव प्रदशितः । तत्र जीवतायामहङ्कार उपलक्षणमेवेति ॥ ६३ ॥
इदानों महदहङ्कारयोः कार्यभेदं प्रतिपिपादयिषुरादावहङ्कारकार्यमाह।
अहङ्कारकर्बधौना कार्य सिदिर्नेश्वराधौना प्रमाणाभावात् ॥ ६४॥
अहङ्काररूपो यः कर्ता तदधौनैव कार्यमितिः सृष्टिसंहारनिष्पत्तिर्भवति। तादृशबलस्याहङ्कारकाय्यत्वात्। अनहजतषु तत्सामर्थ्यादर्शनात् । न तु वैशेषिकायुक्तानहत्तपरमेश्वराधीना। अनहङ्गतम्रष्टत्वे नित्य श्खरै च प्रमाणाभावादित्यर्थः । अहं बहु स्यां प्रजायेर्येति बहङ्कारपूर्विकैव सृष्टिः श्रूयते तत्राहंशब्दस्यानुकरणमात्रत्व प्रमाणाभाव इति। अनेन सूत्रणाहतारोपाधिकं ब्रह्मरुद्रयोः मृष्टिसंहारकर्तत्व श्रुतिस्मृतिसिद्धमपि प्रतिपादितम् ॥ ६४ ॥
ननु भवत्वहङ्कारोऽन्येषां कर्ताहकारस्य तु कः कत तवाह।
For Private And Personal Use Only

Page Navigation
1 ... 247 248 249 250 251 252 253 254