Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 245
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः । जात्। न हि स्वप्नकालौनशब्दस्य बाधे तजज्ञापितोऽप्यर्थः पुनर्न सन्दिह्यत इति। तस्मादात्माविघातकतया श्रुतयो न प्रपञ्चस्यात्यन्तबाधपरा इति । तत्र नेह नानास्ति किञ्चनेत्या. दिश्रुतब्रह्मविभक्तं किमपि नास्तीत्यर्थः । सर्व समाप्नोषि ततोऽसि सर्व इत्यादिस्मत्येकवाक्यत्वात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य व सत्यमित्यादिश्रुतेस्तु नित्यतारूपपारमार्थिकसत्ताविरहोऽर्थः अन्यथा मृत्तिकादृष्टान्तासिद्धेः न हि लोके मृत्तिकाविकाराणामत्यन्ततुच्छत्वं सिद्ध येन दृष्टान्तता स्यादिति। न निरोधो न चोत्पत्तिर्न बडो न च साधकः । न मुमुत्तुन वै मुक्त इत्यषा परमार्थता । इत्यादिश्रुतस्त्वात्मातिरिक्त स्य कूटस्थनित्यतारूपातिपरमा. थसत्ताविरहोऽर्थः । किञ्चात्मनो निरोधाद्यभावोऽर्थः । अन्यथैसादृशज्ञानस्य मोक्षफलकत्व प्रतिपादनविरोधात् । न हि मोक्षो मिथ्येति प्रतिपाद्य मोक्षस्य फल त्वमप्रमत्तः प्रतिपादय - तौति। याश्चात्मैक्य श्रुतयस्तास्तु प्रथमाध्याय एव व्याख्याताः । ब्रह्ममीमांसाभाष्ये चैता अन्याश्च श्रुतयोऽस्माभिर्व्याख्याता इति दिक् ॥ ५२ ॥ न केवलं वर्तमानदशायामेव प्रपञ्चः सन्नपितु सदैवेत्याह। प्रकारान्तरासम्भवात् सदुत्पत्तिः ॥५३॥ पूर्वोक्त युक्तिभिरसदुत्पादासम्भवात् सूक्ष्मरूपेण सदेवोत्पद्यतेऽभिव्यक्तं भवतीत्यर्थः ॥ ५३ ॥ कर्तृत्वभोक्तृत्वयोवैयधिकरण्येऽपि व्यवस्थामुपपादयति सूत्राभ्याम्। अहङ्कारः कर्ता न पुरुषः॥ ५४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254