SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम्। ___ अभिमानवृत्तिकमन्तःकरणमहङ्कारः स एव कृतिमान् । अभिमानोत्तरमेव प्रायशः प्रवृत्तिदर्शनात् । न तु पुरुषोऽपरिणामित्वादित्यर्थः । पूर्वं च धर्मादिकं बुद्धेरिति यदुक्तं सदेकस्यैवान्तःकरणस्य वृत्तिमात्रभेदाशयेन ॥ ५४॥ चिदवसाना भुक्तिस्तत्कर्मार्जितत्वात् ॥५५॥ अहङ्कारस्य कर्तत्वेऽपि भोगश्चित्य व पर्यवसन्त्रो भवति । पहङ्कारस्य संहतत्वेन परार्थत्वात्। नन्वेवमन्यनिष्ठकर्मणान्यस्य भोगे पुरुषविशेषनियमो न स्यात् तत्राह। तत्कर्मार्जितत्वादिति। अहङ्कारेणासञ्जितं तस्याचितौ यत् कर्म तज्जन्यत्वाडोगस्येत्यर्थः । तथा च योऽहङ्कारो यं पुरुषमादायाचेतनेऽहं ममेति वृत्तिं करोति तस्याहङ्कारस्य कर्म तस्यात्मन उच्यते । तेनैव च कर्मणा तत्त्रात्मनि भोगोऽयंत इति नातिप्रसङ्ग इत्याशयः ॥ ५५ ॥ ब्रह्मलोकान्तगतिभिर्नास्ति निष्कतिरिति पूर्वोतो कारणं दर्शयति । चन्द्रादिलोकेऽप्यावृत्तिर्निमित्तसझावात् ॥५६॥ निमित्तमविवेककर्मादिकम् । सुगममन्यत् ॥ ५६ ॥ ननु तत्तलोकवासिजनोपदेशादनावृत्तिः स्यात् तत्राह । लोकस्य नोपदेशात् सिदिः पूर्ववत् ॥५७॥ यघा पूर्वस्य मनुष्यलोकस्योपदेशमात्रात्र सिद्धिर्ज्ञाननिष्यत्तिरेवं तत्तलोकस्थलोकस्योपटेशमात्रात् तद्गतानां ज्ञानमिष्यत्तिनं नियमेन भवतीत्यर्थः ॥ ५७ ॥ नन्वेवं ब्रह्मलोकादनारत्तिरिति श्रुतेः का गतिस्तत्राह । परम्पर्येण तत्सिद्दौ विमुक्तिश्रुतिः ॥५॥ ब्रह्मलोकादिगतानां श्रवणमननादिपरम्परया प्रायशो For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy