Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः।
२२५
अन्धन्तम इवाज्ञानं दीपवच्चन्द्रियोद्भवम् । यथा सूर्य स्तथा जानं यहिप्रर्षे विवेकजम् । इति ॥ १४ ॥ विवेकेनैवाविवेको नाश्यत इति प्रतिनियमस्य ग्राहकमप्याह। अत्रापि प्रतिनियमोऽन्वयव्यतिरेकात ॥१५॥
ध्वान्तालोक्योरिव प्रकृतेऽपि प्रतिनियमः शुक्तिरजतादि. वन्वयव्यतिरेकाभ्यामेव ग्राह्य इत्यर्थः । अथवैवं व्याख्येयम् । ननु विवेकस्यापि किं प्रतिनियतं कारणं तबाह। अवापि विवेकेऽपि कारण नियमोऽन्वयव्यतिरेकाभ्यामेव सिद्धः । श्रव. णमनननिदिध्यामनरूपमेव कारणं न तु कर्मादीनि । कर्मादिकं तु बहिरङ्ग मेवेत्यर्थः ॥ १५ ॥
बन्धस्य स्वाभाविकत्वादिकं न सम्भवतीति प्रथमपादोक्त स्मारयति । प्रकारान्तरासम्भवादविवेक एव बन्धः ॥१६॥ बन्धोऽत्र दुःखयोगाख्यबन्धकारणम् । शेषं सुगमम् ॥१६॥
ननु मुक्तो रपि कार्यतया विनाशापत्त्या पुनर्बन्धः स्यादिति तनाह। न मुक्तस्य पुनर्बन्धयोगोऽप्यनाटत्तिथ तेः ॥१७॥
भावकार्यस्यैव विनाशितया मोक्षस्य नाशो नास्ति न स पुनरावर्त त इति श्रुतेरित्यर्थः। अपिशब्दः पूर्वमुत्रोतार्थसमुच्चये ॥ १७॥
अपुरुषार्थत्वमन्यथा ॥ १८॥ अन्यथा मुक्तस्यापि पुनर्बन्धे प्रलयवदेव मोक्षस्यापुरुषाथत्व परमपुरुषार्थत्वाभावो वा स्यादित्यथैः ॥ १८ ॥
For Private And Personal Use Only

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254