Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः ।
सर्वत्र कार्य्य दर्शनादिभुत्वम् ॥ ३६ ॥
अव्यवस्था सर्वत्र विकारदर्शनात् प्रधानस्य विभुत्वम् । यथाणोर्घटादिव्यापित्वमित्यर्थः । एतच्च प्रागेव व्याख्यातम्
१३१
॥ ३६ ॥
ननु परिच्छिनत्वेऽपि यत्त्र कार्य्यमुत्पद्यते तत्र गच्छतीति वक्तव्यं तत्राह ।
गतियोगेऽप्याद्यकारणताहानिरणुवत् ॥३७॥
गतिस्वकारेऽपि परिच्छिन्नतया मूलकारणत्वाभावः पार्थिवाद्य दृष्टान्त नेत्यर्थः । ष्यथवेत्थ व्याख्येयम् । ननु विगुणात्मकप्रधानस्यान्योऽन्यसंयोगार्थं श्रुतिस्मृतिषु क्रिया चोभाख्या श्रूयते क्रियावत्त्वाश्च तत्त्वादिदृष्टान्तेन मूलकारणत्वाभाव इत्याशङ्क्य परिहरति । गतियोगेऽप्याद्यकारणता हानिरणवत् । गतिः क्रिया तत्सत्त्वेऽपि मूलकारणताया अहानिर्यथा वैशेषिकमते पार्थिवाद्यणनामित्यर्थः ॥ ३७ ॥
ननु पृथिव्यादीनां नवानामेव द्रव्याणां दर्शनात् कथं पृथिवीत्वादिशून्य प्रधानाख्यं द्रव्यं घटेत । न च प्रधानं द्रव्यमेव मास्त्विति वाच्यम् । संयोगविभागपरिणामादिभिर्द्रव्यत्वसिद्धेरिति तत्राह ।
For Private And Personal Use Only
·
प्रसिङ्घाधिक्यं प्रधानस्य न नियमः ॥ ३८ ॥
प्रसिद्ध नवद्रव्याधिक्यमेव प्रधानस्यातो नवेव द्रव्याणौति न नियम इत्यर्थः । अष्टानामेव कार्यत्वश्रवणं चात्र तर्क इति भावः ॥ ३८ ॥
किं सत्त्वादयो गुणा एवं प्रकृतिरथवा गुणत्रयरूपद्रव्यवयाधारभूता प्रकृतिरिति संययेऽवधारयति ।

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254