Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 238
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३. सांख्यदर्शनम्। महदादोनों कार्यत्व श्रवणात् तेषां मूलकारपतया प्रकतिः बिध्यतीत्यर्थः ॥ ३२ ॥ पुरुष एवोपादानं भवतु तबाह । नित्यत्वेऽपि नात्मनो योगत्वाभावात् ॥३३॥ गुणवत्वं सङ्गित्व चोपादानयोग्यता तयोरभावात् पुरुषस्य नित्यत्वेऽपि नोपादालत्वमित्यर्थः ॥ १३ ॥ ननु बह्वीः प्रजाः पुरषात् सम्प्रसूता इत्यादिश्रुतेः पुरुषस्य पार पत्वावगमाधिवर्तादिवादा आश्रयणीया इत्याशझ्याह । श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः ॥३४॥ पुरुषलारणतायां ये ये पक्षाः सम्भावितास्ते सर्वे श्रुतिविरुद्धा इत्यतस्तदभ्युपगन्तृणां कुताकिकाद्यधमानामात्मस्वरूपज्ञानं न भवतीत्यर्थः। एतेनात्मनि सुखदुःखादिगुणोयादानत्ववादिनोऽपि कुतार्किका एव तेषामप्यात्मयधार्थज्ञानं नास्तीत्यवगन्तव्यम्। आत्मकारणताश्रुतयश्च शक्ति शक्तिमदभेदेनोपासनार्था एव । यजामकामित्यादिश्रुतिभिः प्रधानकारणतासिद्धेः। यदि चाकाशस्यावाधिष्ठानकार ण तावदामन: कारणत्वमुच्यते तदा तन्न निराकुर्मः परिणामस्यैव प्रतिबैधादिति ॥ ३४ ॥ स्थावरजङ्गमादिषु पृथिव्यादौनामेव कारणत्वदर्शनात् कथं प्रकते: सर्वोपादानत्व तत्राह । पारम्पयपि प्रधानानुत्तिरणुवत् ॥३५॥ स्थावरादिषु परम्परया कारणत्वेऽपि तेषु प्रधानस्यानुमानादुपादानत्वमक्षतम्। यथाङ्गुरादिद्वारकत्वेऽपि स्थावरादिषु पार्थिवाद्यणनामनुगमादुपादानत्वमित्यर्थः ॥ ३५॥ बनन्यायेन प्ररुतापकत्वे प्रमाणमाह । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254