Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः।
२२८
धारणा तस्याश्च कारणमभ्यासश्चित्तस्थ र्यसाधनानुष्ठानमभ्यासस्यापि कारणं विषयवैराग्यं तस्यापि दोषदर्शनयमनियमादिकमिति पातञ्जलोक्तप्रक्रियया तबिरोध उपरागनिरोधो भवति चित्तरत्तिनिरोधाख्ययोगहारेत्यर्थः ॥ २८ ॥
चित्तनिष्ठध्यानादिना पुरुषस्योपरागनिरोधे पूर्वाचार्यसिद्धं हारं दर्शयति ।
लयविक्षेपयोव्याहत्त्येत्याचााः ॥ ३०॥ ध्यानादिना चित्तस्य निद्रारत्ते: प्रमाणादिवृत्तेश्च निवृत्त्या पुरुषस्यापि वृत्त्य परागनिरोधो भवति । विम्बनिरोधे प्रतिविम्ब स्यापि निरोधादिति पूर्वाचार्य्या आहुरिः । यथा पतञ्जलिर्योगश्चित्तवृत्तिनिरोधस्तदा द्रष्टुः स्वरूऽवस्थानं वृत्तिसारूप्यमितरत्रेति सूत्रत्रयेणैतदेवाह। तथा ।
नित्यः सर्वत्रगो ह्यात्मा बुद्धिसविधिमत्तया । यथा यथा भवेबुद्धिरात्मा तदिहेष्यते ॥ इत्यादिस्मतयोऽप्येतदाहुरिति। तदेवमसम्प्रज्ञातयोगादेव मोक्षान्तरायध्वंस इति प्रवट्टकार्थः ।। ३० ॥ ध्यानादी गुहादिस्थाननियमो नास्तौल्याह ।
न स्थाननियमश्चित्तप्रसादात् ॥ ३१॥ चित्तप्रसादादेव ध्यानादिकम् । अतस्तत्र न गुहादिस्थाः . नियम इत्यर्थः । शास्त्रे त्वौत्सर्गिकाभिप्रायेणैवारण्यगिरिगु । दिस्थानं योगस्योद्दिष्टमिति। अत एव ब्रह्मसूत्रमपि। र काग्रता तत्राविशेषादिति ॥ ३१ ॥
समाप्तो मोक्षविचार इदानीं पुरुषापरिणामियाय - कारणं विचारयति। प्रकृतेराद्योपादानतान्येषां कार्यत्वश्रुतेः । ६१
३०
For Private And Personal Use Only

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254