Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 240
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ सांख्यदर्शनम् | सत्त्वादौनामतद्धर्मत्वं तद्रूपत्वात् ॥ ३८ ॥ सत्त्वादिगुणानां प्रकृतिधर्मत्व नास्ति प्रकृतिस्वरूपत्वादित्यर्थः । यद्यपि श्रुतिस्मृतिषूभयमेव श्रूयते तथापि तर्कतः स्वरूपत्वमेवावधार्य्यते न तु धर्मत्वम् । तथाहि सत्त्वादित्रयं किं प्रकृतेः काय्र्यरूपो धर्मोऽथवाकाशस्य वायुक्त संयोगमावेण नित्य एव धर्मः स्यात् । आद्य एकस्या एव प्रकृतेद्रव्यान्तरसङ्ग विना विचित्र गुणत्रयोत्पत्त्यसम्भवः । दृष्टविरुद्धकल्पनानौचित्य च । अन्त्ये नित्येभ्य एव सत्त्वादिभ्योऽन्योऽन्यमन विचित्रसकलकार्य्योपपत्ती तदतिरिक्तप्रकृतिकल्पनावैयमिति सत्त्वादौनां प्रकृतिकार्य्यत्वादिवचनानि चांशतः प्रकाशादिकार्योपहितयाभिव्यक्त्यादिकमेव बोधयन्ति । यथा पृथिवीतो होपोत्पत्तिरिति ॥ ३८ ॥ प्रधानप्रवृत्त: प्रयोजनमवधारयति निष्प्रयोजनप्रवृत्यभ्युपगमे मोक्षानुपपत्तेरिति । अनुपभोगेऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्र कुङ्कुमवहनवत् ॥ ४० ॥ aaterध्यायस्थे प्रधानसृष्टिः परार्थेत्यादिसूत्रे व्याख्या तमिदम् ॥ ४० ॥ विचित्रसृष्टी निमित्तकारणमाह । कर्मवैचित्र्यात् सृष्टिवैचित्र्यम् ॥ ४१ ॥ कर्म धर्माधर्मौ । सुगममन्यत् ॥ ४१ ॥ ननु भवतु प्रधानात् सृष्टिः प्रलयस्तु कस्मात् । न ह्येक स्मात् कारणाविरुद्धकार्य्यद्दयं घटते तत्राह । साम्यवैषम्याभ्यां काय्य इयम् ॥ ४२ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254