Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२६
सांख्यदर्शनम् ।
अपुरुषार्थत्वं हेतुमाह । अविशेषापत्तिरुभयोः ॥ १६ ॥
भाविबन्धत्वसाम्येनो भयोर्मुक्तबद्धयोर्विशेषो न स्यात् । तत
Acharya Shri Kailassagarsuri Gyanmandir
स्वापुरुषार्थत्वमित्यर्थः ॥ १८ ॥
नन्वेवं बद्धमुक्तयोर्विशेषाभ्य पगमे नित्यमुक्तत्व' कथमुच्यते
तत्राह ।
λ
मुक्तिरन्तरायध्वस्तेर्न परः ॥ २० ॥
वक्ष्यमाणान्तरायस्य ध्वंसादतिरिक्तः प्रदार्थो न मुक्तिरित्यर्थः । यथाहि स्वभावशुक्लस्य स्फटिकस्य जपोपाधिनिमित्तं रक्तत्वं शोक्लावरकरूपं विघ्नमात्र न तु जवोपधानेन शौक्का नश्यति जवापाये चोत्पद्यते । तथैव स्वभावनिर्दु : खस्यात्मनो बुपाधिकं दुःखप्रतिविम्बं तदावरकरूपं विघ्नमात्रं न तु बहुपधानेन दुःखं जायते तदपाये च नश्यतीति । अती नित्यमुक्त आत्मा बन्धमोक्षौ तु व्यावहारिकावित्यविरोध इति
॥ २० ॥
नन्व ेवं बन्धमोच्चयोर्मिथ्यात्व मोक्षस्य पुरुषार्थताप्रतिपादकश्रुत्यादिविरोध इत्याह ।
तत्राप्यविरोधः ॥ २१ ॥
तत्वाप्यन्तरायध्वंसस्य मोचत्वेऽपि पुरुषार्थत्वाविरोध इत्यर्थः । दुःखयोगवियोगावेव हि पुरुषे कल्पितौ न तु दुःखभोगोऽपि । भोगश्च प्रतिविम्वरूपेण दुःखसम्बन्ध इत्यत प्रतिविम्बरूपेण दुःखनिवृत्तिर्यथार्थैव पुरुषार्थः । स एवान्तरायध्वंसः । तादृशच मोक्षो यथार्थ एवेति भावः ॥ २१ ॥
3
नन्वन्तरायध्वंसमात्र चेन्म क्तिस्तर्हि श्रवणमात्रेणैव तसि ह्निः स्यात् । अज्ञानप्रतिबद्ध कण्ठ चामोकर सिद्दिवदिति तत्राह ।
For Private And Personal Use Only

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254