Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
सांख्यदर्शनम्। मुत्पाद्य व पूर्वसंस्कारनाशात् संस्कारान्तरस्य च ज्ञानप्रतिबधेन कर्मवदनुदयादिति तनाह।
एकः संस्कारः क्रियानिवर्तको न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तः॥ १२० ॥
येन संस्कारेण देवादिशरीरभोग प्रारब्धः स एक एक संस्कारस्तच्छरोरसाध्यस्य प्रारब्धभोगस्य समापकः। स च कर्मवदेव भोगसमाप्तिनाश्यो न तु प्रतिक्रियं प्रतिभोगव्यक्तिसंस्कारनानात्व बहुव्यक्ति कल्पनागौरवप्रमादित्यर्थः । कुलालचक्रनमणस्थ लेऽप्येवं वेगाख्यः संस्कार एक एव भ्रमणसमा. तिपय न्तस्थायो बोध्यः ॥ १२ ॥
उद्भिज्जं शरीरमस्तीत्यु क्तं तत्र बाह्यबुद्धाभावाच्छरीरत्व नास्तीति नास्तिकाक्षेपमपाकरोति। __न वा बुड्विनियमो टक्षगुल्मलतीषधिवनस्पतिवणवीरुधादीनामपि भोक भोगायतनत्वं पूर्ववत् ॥ १२१ ॥
न वाच्यज्ञानं यजास्ति तदेव शरीरमिति नियमः किन्तु वृक्षादीनामन्तःसंज्ञानामपि मोक्तभोगायतनत्वं शरीरत्व मन्तव्यम् । यतः पूर्ववत् पूर्वोक्तो यो भोक्त्रधिष्ठानं विना मनुथादिशरीरस्य पूतिभावस्तहदेव वृक्षादिशरौरेष्वपि शुष्कतादिकमित्यर्थः। तथा च श्रुतिः। अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्थतीत्यादिरिति । न वाह्यबुद्धिनियम इत्यशस्य पृथक सूत्रत्वेऽपि सूत्रयमको कत्येत्थमेव व्याख्येयम् । सूत्रभेदस्तु दैयं भयादिति बोध्यम् ॥ १२१ ॥
स्मृतेश्च ॥ १२२॥
For Private And Personal Use Only

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254