Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 223
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः । २१५ असम्प्रज्ञाते क्रमेण वीजक्षयो भवतीत्याशयेनैव तत्र निर्वीजत्ववचनात् । अन्यथा सर्वासामेवासम्प्रज्ञातव्यक्तीनां निरूजत्वे व्युत्थानानुपपत्तरिति ॥ ११७ ॥ ननु समाधिसुषप्ती दृष्टे स्तो मोक्षे तु किं प्रमाणमिति नास्तिकाक्षेपं परिहरति। इयोरिव त्रयस्यापि दृष्टत्वान्न तु हौ ॥ ११८॥ समाधिसुषुप्तिदृष्टान्तेन मोक्षस्यापि दृष्टत्वादनुमितत्वान्न तु हौ सुषुप्तिसमाधी एव। किन्तु मोक्षोऽप्यस्तीत्यर्थः । अनुमानं चेत्थम् । सुषस्यादो यो ब्रह्मभावस्तत्त्यागश्चित्तागताद्रागादिदाषवशादेव भवति । स चेद्दोषो जानेन नाशितस्ताह सुषप्त्यादिसशस्य वावस्था स्थिरा भवति सैव मोक्ष इति ॥११८॥ ननु वासनाख्यवौजसत्त्वेऽपि वैराग्यादिना वासना कीण्यादाकारा हत्तिः समाधौ मा भवतु सुषुप्त तु वासनाप्राबल्यादर्थज्ञानं भविष्यत्वे वेति न सुषुप्तौ ब्रह्मरूपता युक्तति तवाह। वासनयानर्थख्यापनं दोषयोगेऽपि न निमित्तस्य प्रधानबाधकत्वम् ॥ ११६ ॥ यथा वैराग्य तथा निद्रादोषयोगेऽपि सति वासनया म स्वार्थख्यापनं स्वविषयस्मारणं भवति । यतो न निमित्तस्य गुणीभूतस्य संस्कारस्य बलवत्तरनिदादोषबाधकत्व सम्भवतीत्यर्थः। बलवत्तर एव हि दोषो वासनां दुर्बला स्वकार्यकुण्ठां करोतीति भावः ॥ १८ ॥ __ संस्कारलेशतो जीवन्म तस्य शरीरधारणमिति तोयाध्याये प्रोताम्। तत्रायमाक्षेपः । जीवन्म तस्य शवदेकस्मिबप्यर्थेऽस्मदादौनामिव भोगो दृश्यते सोऽनुपपत्रः प्रथमं भोग For Private And Personal Use Only

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254