________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
सांख्यदर्शनम्।
शोलामिव । बुद्धित्तिसम्बन्धकाले तु परिच्छिन्नचिद्रूपत्वेनाभिव्यक्त्या परिच्छेदाभिमानः। तथा वृत्तिप्रतिविम्बवशाह :खादिमालिन्यमिव च भवतीति तत् सर्वमोपाधिकमेव । उपाध्याख्यनिमित्तान्वयव्यतिरेकानुविधानात् स्फटिकलौहित्यवदिति भावः। तथा च योगसूत्रम् । इत्तिसारूप्यमितरत्रेति। अस्मच्छास्त्रे च ब्रह्म शब्द औपाधिकपरिच्छेदमालिन्यादिरहितपरिपूर्णचेतनसामान्यवाची न तु ब्रह्मामीमांसायामिवैश्वर्योपलक्षितपुरुषमात्रवाचौति विवक्तव्यम्। प्रत्रैते श्लोकाः शिष्यव्युत्पत्त्यर्थमुच्यन्ते।
चिदाकाशेऽनभिव्यक्त नानाकारैरितस्ततः । धोरटन्तौ सह व्यक्त्या चिदटन्ती प्रदर्शयेत् ॥ वस्तुतस्तु सदा पूर्ण मेकरूपं च चिनमः । वृत्तिशून्यप्रदेशेषु दृश्याभावान्न पश्यति ॥ चक्षुषो रूपवत् पुसो दृश्या वृत्तिहि नेतरत् । समाध्यादौ च सा नास्तीत्यतः पूर्णः पुमांस्तदा ॥११६॥ तर्हि कः सुषुप्तिसमाधिभ्यां मोक्षस्य विशेषस्तत्राह।
हयोः सवौजमन्यत्र ततिः ॥ ११७॥ हयोः समाधिसुषु त्योः सवौज बन्धवौजसहितं ब्रह्मत्वमन्यत्र मोक्षे वौजस्याभाव इति विशेष इत्यर्थः । ननु चेत् समा. ध्यादी बन्धवोजमस्ति तहि तेनैव परिच्छेदात् कथं ब्रह्मत्वमिति चेत्र। बन्धवौजस्य कर्मादेस्तदानौमुपाधावेवावस्थानात् । न तु चेतनेषु पुरुषे च तेषामप्रतिविम्बनादिति । जाग्रदाधव थायां तु बुरित्तिप्रतिविम्बवशादौपाधिको बन्ध इत्यसकदावेदितम् ॥ ननु पातञ्जले तद्भाष्ये चासम्प्रज्ञातयोगो नि:ज उक्तः। अत्र कथं सवीज उच्यत इति चेन्न ।
For Private And Personal Use Only