________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः ।
२१३
चारादिव्यापारविशेषेः प्राणो देहस्य निमित्तकारणं धार
कत्वादिति भावः ॥ ११४ ॥
ननु प्राणस्यै वाधिष्ठानत्वं सम्भवति व्यापारवत्त्वात् । न प्राणिनः कूटस्थत्वात् । निर्व्यापारस्याधिष्ठाने प्रयोजनाभावाचेति तत्राह ।
भृत्यद्दारा स्वाम्यधिष्ठितिनैकान्तात् ॥११५॥
देहनिर्माणे व्यापाररूपमधिष्ठानं खामिनचेतनस्यैकान्तात् साक्षान्नास्ति किन्तु प्राणरूपभ्भृत्यद्वारा । यथा राज्ञः पुरनिर्माण इत्यर्थः । तथा च प्राणस्याधिष्ठातृत्व' साक्षात् पुरुषस्याधिष्ठातृत्व' प्राणसंयोगमात्रेणेति सिद्धम् । कुलालादीनां घटादिनिर्माणेष्वप्येवम् । विशेषस्त्वयं तत्र चेतनस्य बुधाटेश्वाप्युपयोगोऽस्ति बुद्धिपूर्वकसृष्टित्वादिति । यद्यपि प्राणाधि छानादेव देहनिर्माणं तथापि प्राणद्वारा प्राणिसंयोगोऽप्यपेच्यते पुरुषार्थमेव प्राणेन देहनिर्माणादित्याशयेन भोक्तुरधिष्ठानादित्युक्तम् ॥ ११५ ॥
विमुक्तमोक्षार्थं प्रधानस्येत्युक्तः प्राक् तत्र कथमात्मा नित्यमुक्तो बन्धमुक्तो बन्धदर्शनादिति परेषामाक्षेपे नित्यमुक्तिमुपपादयितुमाह ।
समाधिमुषुप्तिमोक्षेषु ब्रह्मरूपता ॥ ११६ ॥
स्व स्वरूप
समाधिरसंम्प्रज्ञातावस्था । सुषुप्तिश्चात्र समग्र सुषुप्तिः । मोक्षश्च विदेहकैवल्यम् । आत्ववस्थासु पुरुषाणां ब्रह्मरूपता बुद्धिष्टत्तिविलयतस्तदौपाधिक परिच्छेदविगमेन पूर्णतयावस्थानम् । यथा घटध्वंसे घटाकाशस्य पूर्णतत्यर्थः । तदेतदुक्तम् । तनिवृत्तावुपशान्तोपरागः स्वस्थ इति । तथा च ब्रह्मत्वमेव पुरुषाणां स्वभावो नैमित्तिकत्वाभावात् स्फटिकस्य
For Private And Personal Use Only