SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । शरीरस्यैकमात्रभूतोपादानकत्वं पूर्वोक्तमनेनेव प्रसङ्गेन विशिष्याह । सर्वेषु पृथिव्युपादानमसाधारण्यात् तापदेश: पूर्ववत् ॥ ११२ ॥ सर्वेषु शरीरेषु पृथिव्येवोपादानम् । असाधारण्यात् । व्याधिक्यादिभिरुत्कर्षात् । अत्रापि शरौरे पञ्चचतुरादिभौतिकत्वव्यपदेशः पूर्ववत् । इन्द्रियाणां भौतिकत्ववदुपष्टम्भकत्वमात्रेणेत्यर्थः ॥ ११२ ॥ ननु प्राणस्य शरीरे प्राधान्यात् प्राण एव देहारम्भकोऽस्तु २१२ तत्राह । न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः ॥ ११३ ॥ प्राणो न देहारम्भकः । इन्द्रियं विना प्राणानवस्थानेनान्वयव्यतिरेकाभ्यामिन्द्रियाणां शक्तिविशेषादेव प्राणसिद्धेः प्राणीस्पत्तेरित्यर्थः । श्रयं भावः । करणवृत्तिरूपप्राणः करणवियोगे न तिष्ठति । अतो मृतदेहे करणाभावेन प्राणाभावान्न प्राणा देहारम्भक इति ॥ ११३ ॥ नन्वेवं प्राणस्य देहाकारणत्वं प्राणं विनापि देह उत्पद्येत तवाच । भोक्तुरधिष्ठानाह्नोगायतन निर्माणमन्यथा पूर्ति - भावप्रसङ्गात् ॥ ११४ ॥ भोक्तुः प्राणिनोऽधिष्ठानाद्यापारादेव भोगायतनस्य शरीरस्य निर्माणं भवति । अन्यथा प्राणव्यापाराभावे शक्रशोणितयोः पूतिभावप्रसङ्गात् । मृतदेहवदित्यर्थः । तथा च रस For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy