________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः ।
न देशभेदेऽप्यन्योपादानता स्मदादिवन्नियमः ॥ १०६ ॥
न ब्रह्मलोकादिदेशभेदतोऽपोन्द्रियाणामहङ्कारातिरिक्तोपादानकत्वं किन्त्वस्मदादीनां भूलॊकस्थानामिव सर्वेषामेवा. हङ्कारिकत्वनियमः । देशभेदेनकस्यैव लिङ्गशरीरस्य सचारमाजश्रवणादित्यर्थः ॥ १० ॥ नन्वेवं भौतिकत्वश्रुतिः कयमुपपद्यतां तबाह ।
निमित्तव्यपदेशात् तहापदेशः ॥ ११० ॥ निमित्तेऽपि प्राधान्यविवक्षयोपादानवव्यपदेशो भवति। यऽन्धनादनिरिति । अतो भूतोपादानत्वव्यपदेश इत्यर्थः । तेज आदिभूतोपष्टम्भे नैव हि तदनुगताहङ्काराच्चक्षुरादीन्द्रियाणि सम्भवन्ति। यथा पार्थिवोपष्ट शेन तदनुगतात् तेजमोऽग्निर्भवतीति। अन्नमयं हि सौम्य मन इत्यादिश्रुतिस्तदुक्तयुक्तिश्चात्र प्रमाणम् ॥ ११० ॥ स्थलशरीरगतं विशेषं प्रसङ्गादवधारयति ।
ऊष्मजाण्डजजरायुजोझिज्जसाझल्पिकसांसिविक चेति न नियमः ॥ १११ ॥
तेषां खल्वेषां भूतानां लौण्खेव वीजानि भवन्ति । अण्डज जीवजमुद्भिज्जमितिश्रुतावण्ड जादिरूपं शरीरत्रैविध्यं प्रायिकाभिप्रायेणोक्तं न तु नियमः । यत ऊपजादि षड्विधमेव शरीरं भवतीत्यर्थः । तत्रोमजा दन्दशूकादयः। अण्डजाः पक्षिसादयः। जगयुजा मनुष्यादयः। उद्भिज्जाः वृक्षादयः। सङ्कल्पजाः सनकादयः। सांसिद्धिका मन्त्रतप आदि. सिद्धिजाः । यथा रक्तवीजशरीरोत्पन्नशरीरादय इति ॥१११॥
For Private And Personal Use Only