Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 206
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ सांख्यदर्शनम् | न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्दा वास्यादिवत् चक्षुरादिवत् ॥ ६६ ॥ मनसोऽन्तःकरणसामान्यस्य न विभुत्वं करणत्वात्। वास्यादिवत् । वाशब्दो व्यवस्थित विकल्पे । इन्द्रियत्वादप्यन्तःकरणविशेषस्य तृतीयस्य न विभुत्वमित्यर्थः । देहव्यापिज्ञानादिकं तु मध्यमपरिमाणेनैवोपपद्यत इति ॥ ६८ ॥ कात्त्राप्रयोजकत्वशङ्कायामनुकूलतर्कमाह । सक्रियत्वाद् गतिश्रुतेः ॥ ७० ॥ आत्मनो लोकान्तरगमनश्रवणेन तदुपाधिभूतस्यान्तःकर स्य सक्रियत्वसिद्धेर्न विभुत्व' सम्भवतीत्यर्थः ॥ ७० ॥ कार्यत्वोपपत्तये मनसो निरवयवत्वमपि निराकरोति । न निर्भागत्वं तद्योगाहटवत् ॥ ७१ ॥ तच्छब्द: पूर्वसूत्रस्थेन्द्रियं परामृयति । मनसो न निरवयवत्वम् । अनकेन्द्रियेष्वेकदा योगात् । किन्तु घटवन्मध्यमपरिमाणं सावयवमित्यर्थः । कारणावस्थ' चान्तःकरणमखं - बेति बोध्यम् ॥ ७९ ॥ मनःकालादीनां नित्यत्वं प्रतिषेधति । प्रकृतिपुरुषयोरन्यत् सर्वमनित्यम् ॥ ७२ ॥ सुगमम् । कारणावस्थं चान्तःकरणाकाशादिकं प्रकृतिरेवोच्यते । न तु मन व्यादिकं व्यवसायाद्यसाधारणधर्मा भावात् ॥ ७२ ॥ ननु । मायां तु प्रकृतिं विद्यामायिनं तु महेश्वरम् । यस्यावयवभूतैस्तु व्याप्त' सर्वमिदं जगत् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254