________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६८
सांख्यदर्शनम् |
न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्दा वास्यादिवत् चक्षुरादिवत् ॥ ६६ ॥
मनसोऽन्तःकरणसामान्यस्य न विभुत्वं करणत्वात्। वास्यादिवत् । वाशब्दो व्यवस्थित विकल्पे । इन्द्रियत्वादप्यन्तःकरणविशेषस्य तृतीयस्य न विभुत्वमित्यर्थः । देहव्यापिज्ञानादिकं तु मध्यमपरिमाणेनैवोपपद्यत इति ॥ ६८ ॥ कात्त्राप्रयोजकत्वशङ्कायामनुकूलतर्कमाह ।
सक्रियत्वाद् गतिश्रुतेः ॥ ७० ॥ आत्मनो लोकान्तरगमनश्रवणेन तदुपाधिभूतस्यान्तःकर स्य सक्रियत्वसिद्धेर्न विभुत्व' सम्भवतीत्यर्थः ॥ ७० ॥ कार्यत्वोपपत्तये मनसो निरवयवत्वमपि निराकरोति । न निर्भागत्वं तद्योगाहटवत् ॥ ७१ ॥
तच्छब्द: पूर्वसूत्रस्थेन्द्रियं परामृयति । मनसो न निरवयवत्वम् । अनकेन्द्रियेष्वेकदा योगात् । किन्तु घटवन्मध्यमपरिमाणं सावयवमित्यर्थः । कारणावस्थ' चान्तःकरणमखं - बेति बोध्यम् ॥ ७९ ॥
मनःकालादीनां नित्यत्वं प्रतिषेधति ।
प्रकृतिपुरुषयोरन्यत् सर्वमनित्यम् ॥ ७२ ॥
सुगमम् । कारणावस्थं चान्तःकरणाकाशादिकं प्रकृतिरेवोच्यते । न तु मन व्यादिकं व्यवसायाद्यसाधारणधर्मा
भावात् ॥ ७२ ॥
ननु ।
मायां तु प्रकृतिं विद्यामायिनं तु महेश्वरम् । यस्यावयवभूतैस्तु व्याप्त' सर्वमिदं जगत् ॥
For Private And Personal Use Only