________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः।
काले सुखाननुभवेन सुखज्ञानयोर्भेदादित्यर्थः । न च ज्ञानविशेषः सुखमिति वक्त शक्यते। प्रात्मस्वरूपज्ञानस्याखण्डत्वात् । अत एव चैतन्यानुभवकाले सुखस्यावरणमपि व न शक्यते। अखण्डत्वे नानन्दावरणे दुःखं जानामौत्यनुभवानुपपत्तेः। न यात्मनोंशभेदोऽस्ति येनानन्दांशावरणेऽपि चैतन्यांशो मायादिति। न च श्रुतिबलेनैतेऽसत्तर्का इति वाच्यम्। नानन्द न निरानन्दमित्यादिश्रुत्यादुःखमस ब्रह्म भूतभव्यभवात्मकमित्यादिस्मत्या चानन्दाभावस्थापि प्रतिपादितत्व न तस्यैवात्रादर्तव्यत्वादिति ॥६६॥ नन्वेवमानन्दरूपताश्रुतेः का गतिस्तत्राह।
दुःखनिहत्तर्गौणः ॥ १७॥ दुःखनिवृत्त्वात्मनि श्रौत आनन्दशब्दो गौण इत्यर्थः । तदुतम्। सुखं दुःखप्तखात्यय इति। न निरानन्दमिति श्रुतिम्योपाधिकानन्दपरा सत्यसङ्कल्पत्वादिश्रुतिवदिति। यत् तु निरुपाधिप्रियत्वेनात्मनः सुखरूपत्वानुमानं कश्चिदाह। तत्र। दुःखाभावरूपतयापि प्रमोपपनेः। सुखत्वादिवदात्मत्वस्यापि प्रेमप्रयोजकत्वाच। अन्यथा परसुखेऽपि प्रेमापत्ते रिति
गौणप्रयोगे वीजमाह।
विमुक्तिप्रशंसा मन्दानाम् ॥ ८॥ मन्दानज्ञान् प्रति दुःखनित्तिरूपामात्मस्वरूपमुक्ति सुखत्वेन श्रुतिः स्तौति प्ररोचनार्थमित्यर्थः ॥ ८॥ __ अन्तःकरणोपपत्तेः पूर्वोक्ताया प्राञ्जस्येनोपपत्तये मनोवैभवपूर्वपचमपाकरोति।
For Private And Personal Use Only