________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८६
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
अतोऽङ्गत्वात् केवलस्यात्मनोऽद्वितीयस्य नोपादानत्व' मावि -
याहारापि सम्भवति । सङ्गत्व नाविद्यायोगस्य प्रागेव निरस्तत्वात् । प्रत्य कोपादानत्ववदेवो भयोपादानत्वमप्यस ङ्गत्वादेवासम्भवौत्यर्थः । यदि चाविद्या द्रव्यरूपा पुरुषाश्रिता गगने वायुवदिष्यते तदात्माद्वैतहानिः । तथा प्रकृतिरेव सेति सिद्धसाधनं च । तादृशं चाविभागेनाई तमस्माक पौष्टमेव । सदेव सौम्य दमग्र आसीदेकमेवाद्दितीयं ब्रह्मत्यादिश्रुत्यापि चाविभागरूपमेवाइतं प्रतिपाद्यते । न तु तदुद्दितीयमस्ति ततोऽन्यद्दिभक्त यत् पश्येदिति श्रुत्यन्तरात् । तथा चोक्तम् ।
आसीज्ज्ञानमयोऽप्यर्थं एकमेवाविकल्पितम् । तयोरेकतरो ह्यर्थः प्रकृतिश्वोभयात्मिका ॥ ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते । इति । अविकल्पितम विभक्तम् । तस्माद्वेदान्तानामखरहात्माद्वैतं नार्थः । तथाप्याधुनिका वेदान्तिनोऽव त्यपूर्वपचजातमेव ब्रह्ममीमांसा सिद्धान्ततया कल्पयन्ति । तत् तु ब्रह्मसूत्रानुकत्वेन प्रत्युत तद्विरोधेन चास्माभिस्तत्रैव निराकृतमिति । अत्र च ब्रह्ममीमांसासिद्धान्तो न दूष्यते । श्रपि तु वेदान्तं व्वापाततः सम्भावितोऽर्थं एव निराक्रियत इति स्मार्त्तव्यम् । एवमुत्तरस्तूत ष्वपि ॥ ६५ ॥
प्रकाशस्वरूप आत्म ेति स्वयं सिद्धान्तितं तत्र सत्यं विज्ञानमानन्द ब्रह्मेति श्रुतेरानन्दोऽप्यात्मनः खरूपमिति पूर्वपचं निराकरोति ।
·
नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् ॥ ६६ ॥
एकधर्मिण आनन्दचैतन्योभयरूपत्वं न भवति दुःखज्ञान
For Private And Personal Use Only