________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः ।
१९५
अनात्मनापि भोग्यमपञ्चेनात्मनो नाहतं प्रत्यक्षेणापि बाधात् । प्रात्मनः सर्वभोग्याभेदे घटपटयोरप्य भेदः स्यात् । घटादेः पटाद्य भिवात्माभेदात्। स च भेदग्राहकप्रत्यक्षबाधित इत्यर्थः ॥ ६२॥ शिष्यबुद्धिवेशद्याय प्राप्तमप्यर्थं विशदयति ।
नोभाभ्यां तेनैव ॥६॥ उभाभ्यां समुचिताभ्यामप्यात्मनात्मभ्यां नात्यन्ताभेदस्ते. नैव हेतुद्दयेनेत्यर्थः ॥ ६३ ॥ नन्वेवमात्मैवेदमित्यादिश्रुतौनां का गतिरिति तवाह।
अन्यपरत्वमविवेकानां तच ॥६४॥ अविवेकानामविवेकि पुरुषान् प्रति तबाह तेऽन्यपरत्वमुपासनार्थकानुवाद इत्यर्थः । लोके हि शगैरशरीरिणो ग्यभोनोश्वाविवेकेनाभेदो व्यवयितेऽहं गौरो ममात्मा भद्रसेन इत्यादिः। अतस्तमेव व्यवहारमनद्य तानेव प्रति तथोपासनां श्रुतिर्विदधाति मत्त्व शुद्धयाद्यर्थमिति। अत एव परमार्थदशायामुपास्यानामात्मत्वप्रतिषेधति श्रुतिः ।
यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विडि नेदं यदिदमुपासते ॥ इत्यादिनेति ॥ ६४ ॥ एकात्मवादिनां जगदुपादानकारणमपि न सम्भवतीत्याह ।
नात्माविद्या नोभयं जगदुपादानकारणं निःसङ्गत्वात् ॥६५॥
केवल आत्मा यात्माश्रिता वाविद्या समुचितं वा कपालहयवदुभयं न जगदुपादानं सम्भवति। यात्मनोऽसङ्गत्वात् । सङ्गाख्यो हि यः संयोगविशेषस्तेनैव द्रव्याणां विकारो भवति।
For Private And Personal Use Only