________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः। .
१८८ इत्यादिश्रुतिभिः पुम्पकत्योरपि सावयवत्वादनित्यत्वमिति तवाह। न भागलाभो भोगिनो निर्भागवश्रुतेः ॥७३॥
भोगिनः पुरुषस्य प्रधानस्य चावयवो न युज्यते निरवयवत्व श्रुतेः।
निष्कलं निष्कृियं शान्तं निरवद्यं निरञ्जनम् । इत्यादिनेत्यर्थः। उक्त श्रुतिश्चाकाशजलयोरिव पितापुत्रचेतनयोरिव च विभागमात्रणांशांशिभावं बोधयतौति ॥७३॥
दुःखनिवृत्तिर्मोक्ष इत्य त तदवधारणाय तत्र मोक्षे परेषां मतानि निराकरोति ।
नानन्दाभिव्यक्तिमुक्तिर्निर्मित्वात् ॥ ७४ ॥
आत्मन्यानन्दरूपोऽभिव्यक्तिरूपश्च धर्मो नास्ति स्वरूपं च नित्यमेवेति न साधनसाध्यम्। अतो नानन्दाभिव्यक्तिर्मोक्ष इत्यर्थः ॥ ७४ ॥
न विशेषगुणोच्छित्तिस्तहत् ॥ ७५ ॥ अशेषविशेषगुणोच्छेदोऽपि न मुक्तिस्तहत् निधर्मवादेवेत्यर्थः। ननु तर्हि दुःखनिवृत्तिरेव कथं मोक्ष उक्तो दुःखाभावस्थापि धर्मत्वादिति चेन्न। अस्माभिर्भोग्यतासम्बन्धेनैव दुःखाभावस्य पुरुषार्थतावचनादिति ॥ ७५ ॥
न विशेषगतिर्निष्क्यिस्य ॥ ७६॥ ब्रह्मलोकगतिरपि न मोक्षः । आत्मनो निष्कियत्वेन गत्यभावात्। लिङ्गशरीराभ्युपगमे च न मोक्षो घटत इत्यर्थः
For Private And Personal Use Only