________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
नाकारोपरागोच्छित्तिः . क्षणिकत्वादिदोषात् ॥ ७७।
क्षणिकञानमेवात्मा तस्य विषयाकारता बन्धस्तहासनाख्योपरागस्य नाशो मोक्ष इति यन्नास्तिकमतं तदपि न क्षणिकत्वादिदोषेण मोक्षस्थापुरुषार्थत्वादित्यर्थः । ७७ ॥
नास्तिकस्यैव मुक्त्यन्तरं दूषयति । न सर्वोच्छित्तिरपुरुषार्थत्वादिदोषात् ॥७८।
ज्ञानरूपस्यात्मनः सामग्राणैवोच्छित्तिरपि न मोक्षः । यात्मनाशस्य लोके पुरुषार्थत्वादशनादिभ्य इत्यर्थः । ७८ ॥
एवं शून्यमपि ॥ ७६॥ ज्ञाने जेयात्म काखिलप्रपञ्चनाशोऽप्येवमात्मनाशेनापुरुषार्थत्वाब मोक्ष इत्यर्थः ॥ ७ ॥
संयोगाश्च वियोगान्ता इति न देशादिलाभोऽपि ॥ ८०॥ प्रकष्टदेशधनाङ्गनादिखाम्यमपि न मोक्षो यतः ।
संयोगाश्च वियोगान्ता मरणान्तं च जौवनम् । इति श्रयत इत्यर्थः। तथा च विनाशित्वात् वाम्यं न मुक्तिरिति ॥ ८०॥
न भागियोगो भागस्य ॥ ८॥ ... भागस्यांशस्य जीवस्य भागिनि अंशिनि परमात्मनि लयो न मोक्षः। संयोगा हि वियोगान्ता इत्य का हेतोः। ईखरानभ्युपगमाञ्च । तथा खलयस्यापुरुषार्थत्वाञ्चत्यर्थः ॥ ८॥
For Private And Personal Use Only