Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 215
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः । योगो नास्तीति नायं दोषः । कचित् तु तादामासम्बन्धेनाव समवायस्यान्यथासिद्दिमाह तत्र । शब्दमात्रभेदात् । तादामंत्र ह्यत्र नात्यन्तं वक्तव्यम् । गुणवियोगेऽपि गुणिसत्त्वात् । वैशिष्ट्याप्रत्ययाश्च । किन्तु भेदाभेदबुद्दिनियामक: सम्बन्धविशेष एव श्रगत्या वक्तव्यः । तथाच तस्य समवाय इति वा तादात्मामिति वा नाममात्रं भिन्नम् । सम्बन्धियातिरिक्तः सम्बन्धस्तु सिद्ध एवेति । यदि च तादात्मा' स्वरूपमेवोच्यते तदास्माभिरपि तदेवोक्तमिति शब्दमात्रभेद इति ॥ १०० ॥ प्रकृतेः चोभात् प्रकृतिपुरुषसंयोगस्तस्मात् सृष्टिरिति सिद्धान्तः । तत्रायं नास्तिकानामाक्षेपो नास्ति चोभाख्या कस्यापि क्रिया सर्व वस्तु क्षणिकं यत्त्रोत्पद्यते तत्रैव विनश्य तौत्यतो न देशान्तरसंयोगोनेया क्रिया सिध्यतीति तत्राह । २०७ नानुमेयत्वमेव क्रियाया नेदिष्ठस्य तत्तदतोरेवापरोक्षप्रतीतेः ॥ १०१ ॥ न देशान्तरसंयोगादिना क्रियाया अनुमेयत्वमेव । यतो नेदिष्ठस्य निकटस्थस्य द्रष्टुः क्रियाक्रियावतोः प्रत्यक्षेणापि प्रतीतिरस्ति वृक्षचलतीत्यादिरित्यर्थः ॥ १०१ ॥ द्वितीयाध्याये शरौरस्य पाञ्चभौतिकत्वादिरूपैर्मतभेदाएवोक्ता न तु विशेषोऽवष्टतः । अनापरपचं प्रतिषेधति । न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् ॥ १०२ ॥ बहूनां भिन्नजातीयानां चोपादानत्वं घटपटादिस्थले न दृष्टमिति सजातीयमेवोपादानम् । इतरञ्च भूतचतुष्टय For Private And Personal Use Only

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254