Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् । प्राप्तार्थप्रकाशलिङ्गाद्वृत्तिसिदिः ॥ १०६ ॥ सुगमम् ॥ १०६ ॥ देहमपरित्यज्यापि गमनोपपत्तये वृत्त : स्वरूपं दर्शयति ।
भागगुणाभ्यां तत्त्वान्तरं दृत्तिः सम्बन्धार्थ सर्पतौति ॥ १०७॥
सम्बन्धाथं सर्प तौति हेतोश्चक्षुरादेर्भागो विस्फलिङ्गवधिभक्तांशो रूपादिवट्गुणश्च न हात्तः। किन्तु तदेकदेशभूता भागगुणाभ्यां भिन्ना वृत्तिः। विभागे हि सति तद्दारा चक्षुषः सूयादिसम्बन्धो न घटते गुणत्वं च सर्पणाख्यक्रियानुपपत्तेरित्यर्थः । एतेन बहित्तिरपि प्रदीपशिखाबद्र्व्यरूप एव परिणामः स्वच्छतवार्थाकारतोद्ग्राही निर्मलवस्त्रवदिति सिद्धम् ॥ १०७ ॥
नन्व वं वृत्तीनां द्रव्यत्वे कथमिच्छादिरूपबुद्धिगुणेषु रत्तिव्यवहारस्त नाह।
न द्रव्य नियमस्तद्योगात् ॥ १०८॥ वृत्ति व्य मेवेति नियमो नास्ति । कुतः । तद्योगात् । तन वृत्तौ योगार्थसत्त्वात् । वृत्तिवर्तन जीवन इति हि यौगिकोऽयं शब्दः । जीवनं च स्वस्थितिहेतुापारः । जीवबलप्राणधारणयोरित्यनुशासनात् । वैश्यत्तिः शूद्रवत्तिरित्यादिव्यवहाराच । तत्र यथा द्रव्यरूपया वृत्त्या बुद्धिर्जीवति तथेच्छादिभिरति तेऽपि वृत्तयः सर्वनिरोधेनैव चित्तमरणादित्यर्थः ॥ १०८॥
इन्द्रियाणां भौतिकत्वस्यापि श्रवणात् कदाचिल्लोकविशेषभेदेन श्रुतिव्यवस्था शयत तनाह ।
For Private And Personal Use Only

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254