________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः ।
योगो नास्तीति नायं दोषः । कचित् तु तादामासम्बन्धेनाव समवायस्यान्यथासिद्दिमाह तत्र । शब्दमात्रभेदात् । तादामंत्र ह्यत्र नात्यन्तं वक्तव्यम् । गुणवियोगेऽपि गुणिसत्त्वात् । वैशिष्ट्याप्रत्ययाश्च । किन्तु भेदाभेदबुद्दिनियामक: सम्बन्धविशेष एव श्रगत्या वक्तव्यः । तथाच तस्य समवाय इति वा तादात्मामिति वा नाममात्रं भिन्नम् । सम्बन्धियातिरिक्तः सम्बन्धस्तु सिद्ध एवेति । यदि च तादात्मा' स्वरूपमेवोच्यते तदास्माभिरपि तदेवोक्तमिति शब्दमात्रभेद इति ॥ १०० ॥
प्रकृतेः चोभात् प्रकृतिपुरुषसंयोगस्तस्मात् सृष्टिरिति सिद्धान्तः । तत्रायं नास्तिकानामाक्षेपो नास्ति चोभाख्या कस्यापि क्रिया सर्व वस्तु क्षणिकं यत्त्रोत्पद्यते तत्रैव विनश्य तौत्यतो न देशान्तरसंयोगोनेया क्रिया सिध्यतीति तत्राह ।
२०७
नानुमेयत्वमेव क्रियाया नेदिष्ठस्य तत्तदतोरेवापरोक्षप्रतीतेः ॥ १०१ ॥
न देशान्तरसंयोगादिना क्रियाया अनुमेयत्वमेव । यतो नेदिष्ठस्य निकटस्थस्य द्रष्टुः क्रियाक्रियावतोः प्रत्यक्षेणापि प्रतीतिरस्ति वृक्षचलतीत्यादिरित्यर्थः ॥ १०१ ॥
द्वितीयाध्याये शरौरस्य पाञ्चभौतिकत्वादिरूपैर्मतभेदाएवोक्ता न तु विशेषोऽवष्टतः । अनापरपचं प्रतिषेधति ।
न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् ॥ १०२ ॥
बहूनां भिन्नजातीयानां चोपादानत्वं घटपटादिस्थले न दृष्टमिति सजातीयमेवोपादानम् । इतरञ्च भूतचतुष्टय
For Private And Personal Use Only