________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्।
ननु सम्बभ्यनित्यत्वेऽपि सम्बन्धी नित्यः स्यात् किमत बाधकं तवाह। नातः सम्बन्धी धर्मिग्राहकप्रमाणबाधात् ॥८॥
कादाचित्कविभागे सत्य व सम्बन्धः सिध्यति। अन्यथा वद्यमाणरीत्या स्वरूपेणैवोपपत्तौ सम्बन्धकल्पनानवकाशात् । स च कादाचित्को विभागो न सम्बन्धनित्यत्वे सम्भवति। अतः सम्बन्धग्राहकप्रमाणे नैव बाधान नित्यः सम्बन्ध इत्यर्थः ॥८॥
नन्वेवं नित्ययोर्गुणगुणिनोनित्यः समवायो नोपपद्येत तवाह।
न समवायोऽस्ति प्रमाणाभावात् ॥१६॥ सुगमम् ॥ ८॥
ननु वैशिष्ट्यप्रत्यक्षं विशिष्टब धन्यथानुपपत्ति प्रमाणं तवाह।
उभयवाप्यन्यथासिद्देन प्रत्यक्षमनुमानं वा
उभयत्रापि वैशिष्ट्यप्रत्यक्षे तदनुमाने च स्वरूपेणैवान्यथासिद्धेनं तदुभयं समवाये प्रमाणमित्यर्थः । अयं भावः । यथा समवायवैशिध्यबुद्धिः समवायखरूपेणैवेष्यतेऽनवस्थाभयादिति तत्र प्रत्यक्षानुमाने अन्यथासिद्धे । एवं गुणगुणिप्रभृतौनां विशि
बहिरपि गुणादिस्वरूपेणैवेष्यताम् । अतस्तत्रापि प्रत्यक्षानुमाने अन्यथासिद्धे इति। नन्वेवं संयोगोऽपि न सिध्यति भूत. लादौ घटादिप्रत्ययस्यापि स्वरूपेणैवान्यथासिद्धेरिति चेन्न । वियोगकालेऽपि भूतलघटयोः स्वरूपतादवस्थ्येन विशिष्टबुद्धिप्रसङ्गात् । समवायस्थले च समवेतस्य कदापि स्वाश्रयवि.
For Private And Personal Use Only