________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
सांख्य दर्शनम्।
मुपष्टम्भकमित्याशयेन पाञ्चभौतिकव्यवहारः। एकोपादानकत्वेऽपि पृथिव्येवोपादानं सर्वशरीरस्यति वक्ष्यति ॥ १०२ ॥
स्थूलमेव शरीरमिति केचित् तनिराकरोति ।
न स्थूलमिति नियम आतिवाहिकस्यापि विद्यमानत्वात् ॥ १०३ ॥ इन्ट्रियाश्रयत्व शरीरत्वम् । यन्मूत्य वयवाः सूक्ष्मास्तस्य मान्याश्रयन्ति षट । तस्माच्छरीरमित्याहुस्तस्य मूर्ति मनीषिणः ॥ इति मनुवाक्यात्। एतादृशं च शरीरं स्थ लं प्रत्यक्षमवेति न नियमः । कुतः । आतिवाहिकस्याप्रत्यक्षतया स्नूक्ष्म स्य भौतिकस्य शरीरान्तरस्थापि सत्त्वादित्यर्थः । लोकाल्लोकान्तरं लिङ्गदेहमतिवाहयतौल्यातिवाहिकम्। भूताश्रयतां विना चित्रादिवद्गमनाभावस्य प्रागेवोक्त त्वात् । इदं च सूत्रं तस्यैव स्पष्टीकरणमानार्थम् । लिङ्गस्य च शरीरत्वं भोगाश्रयतया पुरुषप्रतिविम्बाश्यतया वेति बोध्यम्। यातिवाहिकशरीर च प्रमाणम्।
अङ्गठमावः पुरुषोऽन्तरात्मा सदा जनानां हृदये सनि विष्टः।
___ अङ्गुष्ठमात्र पुरुषं निश्कर्ष बलाद्यमः । इति श्रुतिस्मृती। न हि लिङ्गशरीरस्य सकलशरीरव्यापिन: स्वतोऽङ्गुष्ठमात्रत्व सम्भवति। अत आधारस्याङ्गुष्ठमात्रमर्थात् सिध्यति। यथा दीपस्य सर्वग्टहव्यापित्वेऽपि कलिकाकारत्व तैलवादिसूक्ष्मांशस्य दशोपरि सम्पिण्डि तस्य पार्थिवभागत्य कलिकाकारतया तथैव लिङ्देहस्य देहयापि
For Private And Personal Use Only