SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः। २०८ त्वेऽप्यङ्गष्ठ परिमाणत्वं सूक्ष्म भूतस्याङ्गुष्ठपरिमाणवे नानुमेयमिति ॥ १.३॥ गोलकेभ्योऽतिरिक्तानौन्द्रियाणि प्रागुक्तानि तदुपपादनायेन्द्रियाणामप्राप्तप्रकाशकत्व निराकरोति। नाप्राप्तप्रकाशकत्व मिन्द्रियाणामप्राप्तेः सर्वप्राप्तेर्वा ॥ १०४॥ खासम्बद्धार्थानौन्द्रियाणि न प्रकाशयन्ति। अप्राप्तः । प्रदीपादौनामप्राप्तप्रकाशकत्वादर्शनात् । अप्राप्तप्रकाशकत्व व्यवहितादिसर्ववस्तुप्रकाशकत्वप्रसङ्गाचेत्यर्थः । अतो दूरस्थसूर्यादिसम्बन्धाथं गोल कातिरिक्तमिन्द्रियमिति भावः । करणानां चार्थ प्रकाशकत्वं पुरुषेऽर्थसमर्पणहारैव। खतो जडत्वात्। दर्पणस्य मुखप्रकाशकत्ववत्। अथवार्थप्रतिविम्बोद: ग्रहणमेवार्थप्रकाशकत्वमिति ॥ १४ ॥ __नन्वेवं चक्षुषस्तैजसत्वमेव युक्तं तेजस एव किरणरूपेणाशु दूरापमर्पणदर्शनादिति शङ्कां निराकरोति । न तेजोऽपसर्पणात् तैजसं चक्षुत्तितस्तत्सिद्धेः ॥ १०५ ॥ तेजसोऽपसपणं दृष्टमिति कृत्वा तैजसं चक्षुर्न वाच्यम् । कुतः। अतैजसत्वेऽपि प्राणवदेव वृत्तिभेदेनापसर्पणोपपत्तेरित्यर्थः । यथा हि प्राणः शरीरं सन्त्यज्यैव नासाग्राहिः कियदृरं प्राणनाख्यरत्त्यापसरति । एवमेवातैजसद्रव्यमपि चतुर्देहमसन्त्यज्यापि वृत्त्याख्यपरिणामविशेषेण भटित्य व दूरस्थ सूर्यादिकं प्रत्यपसरेदिति ॥ १०५ ॥ नन् वम्भतरत्तो किं प्रमाणं तबाह । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy