________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः ।
धर्मवदधर्मेऽप्येवं प्रमाणानीत्यर्थः ॥ २३ ॥
अर्थात् सिद्धिश्चेत् समानमुभयोः ॥ २४ ॥
ननु विध्यन्यथानुपपत्तिरूपयार्थापत्त्वा धर्मसिद्धिः सा च नास्त्यधर्म इति कथं श्रौतलिङ्गातिदेशोऽधर्मं इति चेत्र यतः समानमुभयोर्धर्माधर्मयोर्लिङ्गमस्ति परदाराव गच्छेदिति निषेधविध्यादेरेवाधर्मलिङ्गत्वादित्यर्थः ॥ २४ ॥
ननु धर्मादिकं चेत खोकतं तर्हि पुरुषाणां धर्मादिमत्त्वेन परिणामाद्यापत्तिरित्याशङ्कां परिहरति । अन्तःकरणधर्मत्वं धर्मादीनाम् ॥ २५ ॥
श्रादिशब्देन वैशेषिकशास्त्रोक्ताः सर्व आत्मविशेषगुणा गृह्यन्ते । न चैवं प्रलयेऽन्तः करणाभावाडर्मादिकं क तिष्ठत्विति वाच्यम् । आकाशवदन्तः करण स्यात्यन्तविनाशाभावात् । अन्तःकरणं हि काय्र्यकारणोभयरूपमिति प्रागेव व्याख्यातम् । अतः कारणावस्थे प्रकृत्यंशविशेषेऽन्तःकरणे धर्माधर्मसंस्कारादिकं तिष्ठतीति ॥ २५ ॥
१८३
स्यादेतत् । प्रकृतिकाय्यैवैचित्रयाच्छ्रुत्यादेव धर्मादिसिद्धिरिति यदुक्तं तदयुक्तम् । त्रिगुणात्मकप्रकृतस्तत्कार्य्यीणां च भवतां श्रुत्यैव बाधात् । साची चेता केवलो निर्गुणश्च । अथात आदेशो नेति नेति ।
व्यशब्दमस्पर्शमरूपमव्ययं तथा रसं नित्यमगन्धवच्च यत् । इत्यादिना । न निरोधो न चोत्पत्तिः । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यादिना चेति । तदेतत् परिहरति ।
गुणादीनां च नात्यन्तबाधः ॥ २६ ॥
गुणानां सत्त्वादीनां यद्दर्माणां च सुखादीनां तत्कार्य्या
For Private And Personal Use Only