________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
सांख्यदर्शनम्।
भवतु वा यथाकथञ्चिविद्याबाध्यत्वमेवाविद्याल तथापि तादृशवस्तुमः सादित्वमेव पुरुषेषु न त्वनादित्व सम्भवति। विज्ञानघन एवेत्यायुक्त श्रुतिभिः प्रलयादौ पुरुषस्य चिम्मानत्वसिद्धेरित्यर्थः । अस्मन्मते च प्रलये पुरुषस्यासंसारित्वेऽपि स्वतन्त्रनित्यप्रधानसंयोगात् पुनर्बन्ध उपपादितस्तथा प्रधानसंयोगेऽपि प्राग्भवीयाविवेक एव वासनादृष्टादिद्वारा निमित्तमित्यप्युक्तम् । तस्माद्योगदर्शनोक्तादन्या नास्त्यविद्या सा च बुद्धिधर्म एव न पुरुषधर्म इति सिद्धम् ॥ १८ ॥ ____ अत्रैवाध्याये कर्मनिमित्ता प्रधानप्रत्तिरिति यदुक्तं तत्र परपूर्वपक्षं समाधत्ते प्रघट्टकेन ।
न धर्मापलापः प्रकृतिकार्यवैचिल्यात् ॥२०॥ अप्रत्यक्षतया धर्मापलापो न सम्भवति प्रकृतिकार्येषु वैचित्रवान्यथानुपपत्त्या तदनुमानादित्यर्थः ॥ २० ॥ प्रमाणान्तरमप्याह।
श्रुतिलिङ्गादिभिस्तसिदिः ॥ २१ ॥ पुण्यो वै पुण्येन भवति पापः पापेनेत्यादिश्रुतेः स्वर्गकामोऽश्वमेधेन यजेतेति विध्यादिरूपाल्लिङ्गाद्योगिप्रत्यक्षादिभिश्च तसिद्धिरित्यर्थः ॥ २१॥ प्रत्यक्षाभावाधर्मासिद्धिरिति परस्य हेतुमाभासीकरोति ।
न नियमः प्रमाणान्तरावकाशात् ॥२२॥ प्रत्यक्षाभावाहस्त्वभाव इति नियमो नास्ति प्रमाणान्तरेणापि वस्तूनां विषयीकरणादित्यर्थः ॥ २२ ॥ धर्मवदधर्ममपि साधयति ।
उभयवाप्येवम् ॥ २३ ॥
For Private And Personal Use Only